पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११३

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०९ करभूता नदी। [अ०२. सू०२.] ५४२ अष्टादशं काण्डम्। प्रमाणैः सा दक्षिणतो मिमीते । सप्त उत्तरतः । पञ्च पुरस्तात् । पञ्च पश्चात् इत्यादिक्रमेणेत्यर्थः॥ तत्र प्रथमा॥ अश्वावती प्र तर या सुशेवार्क्षाकं वा प्रतरं नवीयः । यस्त्वा जघान वध्यः सो अस्तु मा सो अन्यद् विदत भागधेय॑म् ॥३१॥ अश्वऽवतीम्।मातर। या। सुऽशेवा । ऋक्षाकम्।वा। मातरम् । नवीयः । यः । त्वा । जघान । वध्यः । सः । अस्तु । मा। सः । अन्यत् । विदत । भागऽधेयम् ॥ ३१॥ हे प्रेत अश्वावतीम् अश्वा अस्यां सन्तीति अश्वावती अश्वानाम् आ1- करभूता नदी ।[मन्त्रे] सोमाश्वेन्द्रिय" इति मतौ दीर्घः । सं- ज्ञाशब्दोयम् । एतत्संज्ञां नदीं प्र तरय प्रकर्षेण तारय उत्तारय । सा च नदी सुशेवा अस्मभ्यं सुसुखा भवतु । तथा ऋक्षाकं वा । वाश- ब्दश्चार्थे । ऋक्षाकम् ऋक्षैः भालूकैरुपेतं दुष्टमृगनिषेवितं नवीयः नवत- रम् 2अदृष्टपूर्वम् अरण्यमपि प्रतरम् प्रकर्षेण तरामि । हे प्रेत त्वा त्वां यः पुरुषः जघान स वध्यः वधार्हः अस्तु भवतु । स घातकः पुरुषः अन्यद् भागधेयम् पूर्वम् उपभुक्ताद् अन्यद् उपभोग्यं वस्तु मा विदत मा लभताम् । निर्धनो भवत्वित्यर्थः । विद् लाभे । अस्मात् माङि लुङि आत्मनेपदैकवचने लृदित्वात् श्लेः अङ् आदेशः ॥ द्वितीया ॥ यमः परोडवरो विवस्वान् ततः परं नाति पश्यामि किं चन। यमे अध्वरो अधि मे निविष्टो भुवो विवस्वानन्वाततान ॥ ३२॥ PC ऋक्षाकाम् ।.. IPCP बध्यः।. ३ A KC R पुरोवरो विव'. D यमः परोवरी विवस्वान् changed to यमः परोवरो विवस्वान्. CP यमः । पुरः । अवरः । षिवस्थान् ।. BV यमः परोवरो विवस्वान्. We with BY De. ४८. भुवों विवस्वान. We with A Bk RV. 18 अकार for भाकर. 23 मष्टपूर्वरण्युमपि.