पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११२

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०८ नि- 1 अथर्वसंहिताभाष्ये द्वितीया। ज्योक् चिरकालं जीवन्तः पितृप्रसादाजीवितारो भवेम ॥ दशमी ॥ यां ते धेनुं निपृणामि यमु ते क्षीर ओदनम् । तेना जनस्यासो भर्ता योडत्रासदजीवनः ॥ ३० ॥ () याम् । ते। धेनुम् । निऽपृणामि । यम् । ऊ इति । ते । क्षीरे । ओदनम् । तेन । जनस्य । असः । भर्ता । यः । अत्र । असत् । अजीवनः ॥३०॥ हे प्रेत ते तुभ्यं यां धेनुम दोग्धीं गां निपृणामि प्रयच्छामि । नि पूर्वः पृणातिः पित्र्ये दाने वर्तते । त्वाम् उद्दिश्य गां दत्तवान् अस्मीत्यर्थः । तथा क्षीरे पयसि पक्कं यम् उ यं च ओदनं ते तुभ्यं नि- पृणामि तेन धेनुसहितेन ओदनेन जनस्य जनिमतो लोकस्य भर्ना धा- रयिता पोषयिता वा असः भवेः डुभृञ् धारणपोषणयोः। यो जनः अत्र अस्मिन् लोके अजीवनः जीवनरहितः असत् भवेत् । तस्य जनस्येति संबन्धः । यद्वा अस्मिन् लोके जीवनरहितः असत् । पुरुषव्य- त्ययः । स त्वम् इति संबन्धः । अस इति । अस्तेलेंटि अडा- गमः। इतश्च लोपः परस्मैपदेषु" इति इकारलोपः ॥ इति द्वितीयेनुवाके तृतीयं सूक्तम् ॥ पितृमेधे "अश्वावतीम्" [३१] इत्यृचा शवदाहानन्तरं स्नानं कृत्वा नदीं तरतो2ऽनुमन्त्रयेत । पिण्डपितृयज्ञे “ये निखाताः" [३४] इति द्वाभ्यां द्वे समिधावादध्यात् । “शं तप" [३६] इत्यृचा प्रेतशरीरे पुत्रेण दप्तम् अग्निं पुत्रो गोत्रिणो वा दीपयेयुः । “ददामि" [३७] इत्यनया का- म्पीलशाखया दहनस्थानं संप्रोक्षेत् । “इमां मात्रां मिमीमहे"[३९] इत्यादिभिः सप्तभिः श्मशानदेशं प्रतिदिशं मिमीते3। दिष्टिवितस्यादिभिः Å E. We with A BR V Dc. २ CP ओदने । 23 नदीतरोनु for नदी तरतोनु° which is conjectural. Kausika has: अश्वावतीमिति नदी तारयते। Kesava: अश्वावतीत्यृचा नदीतरतामनुमंत्रयते ।. 33 " 18 आडागमः. मिमीत.