पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/१११

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०७ [अ०२. सू०२.] ५४२ अष्टादशं काण्डम। रन्ति । नाशयन्तीत्यर्थः । तान् मायाविनो राक्षसान् अग्निः अस्माद् यज्ञात् पितृन् उद्दिश्य क्रियमाणात् प्र धमाति प्रधमतु प्रकर्षेण निर्गम- यतु । ध्मा शब्दाग्निसंयोगयोः । अस्मात्लेटि आडागमः । “पा- प्रा" इत्यादिना धमादेशः ॥ नवमी॥ सं विशन्त्विह पितरः स्वा नः स्योनं 1कृण्वन्तः प्रतिरन्त आयुः । तेभ्यः शकेम हविषा नक्षमाणा ज्योग् जीवन्तः शरदः पुरूचीः ॥२९॥ सम् । विशन्तु । इह । पितरः। स्वाः । नः । स्योनम् । कृण्वन्तः । प्रऽति- रन्तः । आयुः। तेभ्यः । शकेम । हविषा । नक्षमाणाः । ज्योक् । जीवन्तः । शरदः । पु- रूचीः ॥ २९॥ इह अस्मिन् यज्ञे नः अस्माकं स्वाः ज्ञातयो गोत्रजाः पितरः पि- तृपितामहप्रपितामहाः सं विशन्तु सम्यग् उपविशन्तु । उपविष्टास्ते स्यो- नम सुखम् अस्माकं कृण्वन्तः कुर्वन्तः आयुः जीवनं प्रतिरन्ते ।प्र पूर्वस्तिरतिर्वर्धनार्थः । प्रवर्धयन्तु । चिरकालम् अस्मान् जीवयन्तु इत्यर्थः । दक्षमाणाः वर्धमाना वयं तेभ्यः पितृभ्यो हविषा चरुपुरोडा- शादिलक्षणेन शकेम परिचरितुं शक्ता भूयास्म । शक्ल शक्तौ इ- त्यस्माद् आशिषि लिङि “लिड्याशिष्यङ्" इति अङ् प्रत्ययः । पु. रूचीः पुरु बहुलम् अञ्चन्ति गच्छन्तीति पुरूच्यः । अञ्चते: “ऋ- त्विग्" इत्यादिना क्विन् । अनिदिताम्" इति नलोपः । “अचः इति अकारलोपे "चौ" इति दीर्घः । अञ्चतेश्वोपसंख्यानम्" इति ङीप् । पुरूचीः बह्वीः शरदः संवत्सरान् । अत्यन्तसंयोगे So we with A BCR RV Dc. Cr has asfaral. Přesfach i. Såyana afarta. But the accent in the Sanhità ag well as the context cloustless suggest asfarcas in the pada-påtha, which we accordingly adopt in spite of the pada-MSS. Prof. Whitney has rightly adopted the correction in his Index terbrun to his edition. स्वानः1, and CP स्वानः for स्वाः।नः।। 18 कृण्वतः. 29 PP