पृष्ठम्:अथर्ववेदसंहिता-भागः ४ (१).pdf/११०

विकिस्रोतः तः
एतत् पृष्ठम् परिष्कृतम् अस्ति

१०६ अथर्वसंहिताभाष्ये अपारुधन् । प्रेतशरीरम् अपागमयन्तु इत्यर्थः । रुधिर् आवरणे। इरितो वा” इति च्लेः अङ् आदेशः । तं प्रेतदेहम् इतः अ- स्माद् ग्रामात् । परिः पञ्चम्यर्थानुवादी । यद्वा परिहरणार्थः । हे बा- न्धवाः तं मृतदेहं परिह्रत्य निर्वहत1 ग्रामाद् निर्गमयत । कुत इत्यत आह । मृत्युः मारकः पुरुषो यमस्य राज्ञो दूतः कर्मकर आसीत् अ- भवत् । प्रचेताः प्रकृष्टज्ञानः सः म्रियमाणस्य पुरुषस्य असून प्राणान पितृभ्यः पितॄन् अनुप्रवेशयितुम् । "क्रियार्थोपपदस्य [च] कर्मणि स्थानिनः" इति चतुर्थी ।गमयां चकार प्रापयामास ।ग- मेण्य॑न्तात् ॥'कास्प्रत्ययाद् " इति आम् प्रत्ययः । कृञोऽनुप्र2योगश्च ॥ अष्टमी॥ ये दस्यवः पितृषु प्रविष्टा ज्ञातिमुखा अहुतादृश्चरन्ति । परापुरो निपुरो ये भरन्त्यग्निष्टानस्मात् प्र धमाति यज्ञात् ॥ २४ ॥ ये। दस्यवः । पितृषु । प्रविष्टाः । ज्ञातिऽमुखाः । अहुतऽअदः । चरन्ति । पराऽपुरः । निऽपुरः । ये। भरन्ति । अग्निः । तान् । अस्मात् ।प्र । धमाति। यज्ञात् ॥२८॥ ये. दस्यवः उपक्षयकारिणो राक्षसा ज्ञातिमुखाः ज्ञातीनां मुखमिव मुखं येषां ते तथोक्ताः । ज्ञातिप्रतिरूपा इत्यर्थः । अत एव पितृषु पितृपि- तामहप्रपितामहेषु मध्ये प्रविष्ठाः अहुतादः अहुतं लौकिकम् अन्नम् अ- दन्ति भक्षयन्तीति अहुतादः । यद्वा अहुतावस्थमेव हविर्मायया अदन्तीति अहुतादः । चरन्ति पितृषु मध्ये वर्तन्ते । परापुरः परापृणन्ति पिण्डान् ददतीति परापुरः पिण्डदातारः पुत्राः । [निपुरः] निपृणन्ति नियमेन पि- ण्डदानादिकं कुर्वन्तीति निपुरः पौत्राः । पृ पालनपूरणयोः । इ- त्यस्माद् उभयत्र कर्तरि क्विप् । “उदोष्ठ्यपूर्वस्य” इति उत्त्वम् । ये [च] राक्षसाः पिण्डोदकदानादिना पालयितृन् पुत्रपौत्रादीन् भरन्ति ह- CRra:. We with ABKV De. २ CR शातिमुना अहुता' (without any accent on atragar). We with BŘV Dc Cr. 18 निर्वहेत. 28 om. °°.