पृष्ठम्:अथर्ववेदसंहिता-भागः २.pdf/३२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति
[अ° २: सू० ११ १t४
२३
षष्ठं काण्डम् ।

शमीम् एतत्संशं वृक्षम् [अश्वन्यः] अश्वत्थाख्यो वृक्षा आरूढः अधि अग्निदाहशमनहेतुर्युः शमी प्रजापतिरग्निम् असृजत । सो बिभेत् म मा धक्ष्यतीति । तं शम्याशमयत् । तच्छम्यै शमित्वम्” इति [ \ ° बा° १. १. ३. ११]। स च अग्निः अश्वो भूत्वा यस्मिन् वृक्षे पुणे संवत्सरम् अवासीत् स ह्यः अश्वत्थः । सुपि स्थः” इति अ श्श्वशब्दोपपदात् तिष्ठतेः कप्रत्ययः श्रूयते हि अग्निर्देवेभ्यो निलायत अश्वो रूपं कृत्वा सोऽश्वत्थे संवासरम् अतिष्ठत् । तद् अश्वत्थस्याश्वन्यत्वम्” इति [ तै° ब्रा०१. १. ३. ९] अयम् अर्थः । शमी स्त्री । अश्वत्थः पुमान् । स च अनिलक्षणं पुत्रम् उत्पादयितुं ताम् अधिरूढः । तस्या उपरि उत्पन्न इत्यर्थः । अश्वत्थाद् अग्निमन्थनार्थम् अरण्योराहरणम् । तया च श्रुतम् । ‘‘श- मीगर्भाद् अग्नि मन्थति । एषा वा अग्नेर्यज्ञिया तनूः । तामेवास्मै नयति ’ इति [ तै' ब्रा° १. १. ९. १] । तत्र तादृशे अश्वत्थे पुंसवनम् पुमान् सूयते येन कर्मणा तत् पुंसवनम् तत् कृतम् अनुष्ठितम् । तद् वै तत् खलु पुत्रस्य वेदनम् लम्भकं तत् पुत्रजनननिमितं कर्म स्त्रीषु आभरामसि आहरामः संपादासः इदन्तो मसि

द्वितीया ।

पुंसि वै रेतो भवति तत् स्त्रियामनु षिच्यते
तद् वै पुत्रस्य वेदैनं तत् प्रजापतिरब्रवीत्॥ २ ॥
पुंसि । वै .। रेतोः । भवति । तत् । स्त्रियाम् । अनु । सिच्यते
तत् । वै । पुत्रस्य । वेदनम् । तत् । प्रजाऽर्पतिः । अब्रवीत्। ॥ २

पुंसि वै पुरुषे खलु प्रथमं बीजभतं रेतः आश्रितं भवति । तत् गः र्भाधानकर्मणा स्त्रियाम् अनु सिच्यते गर्भाशये प्रक्षिप्यते । तत् खलु नि षिक्तं रेतः पुत्रस्य वेदनम् उत्पन्स्यमानस्य पुत्रस्य लम्भकम् ह वा अयम् आदितो गभ भवति”’ [ऐ० ओ० २. ५. १] इत्यादिकम् ऐतरेयकम् अत्र द्रष्टव्यम् । तद् एतत् पुंसवनं कर्म प्रजापतिः प्रजानां त्रय अब्रवीत् । पुत्रजननोपायत्वेन लोके प्रकाशितवान् इत्यर्थः ।


| S पुराग्निः for पुरा.