पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ६७ अमृताहुतिममृतायां जुहोम्यानं पृथिव्याममृतस्य योनौ तयाऽनन्तं कम्ममहं जयानि प्रजापतिः प्रथमोऽयं जिगायानावग्निः स्वाहा || ३ || भाष्यम् – अमृतस्य व्रीह्यादेर्योना उत्पत्तिस्थानभूतायाममृतायाममरणधर्मियां चिर- स्थायिन्यामिति यावत् । पृथिव्य ममृताहतिममृता आहुतयो यत्र हुता आहु॒तयोऽमृतरूपा भवन्तीत्यर्थः । अग्निं गार्हपत्याद्धृत दशं जुहोमि स्थापयामि प्रकरण।ज्जुहोतिः स्थापनार्थ: । तया पुत्रोक्ताग्निस्थापनरूपयाऽऽहुत्याऽनन्तं काममन- न्तान्कामान् " जातावेकवचनम् " अहमेकः क्षीरहोताऽन्वर्युर्ब्रह्मचारी वाऽन्तेवासी जयानि प्राप्नवानि । यद्यप्यत्रास्मच्छदगोचरो होमकेच्यते तथाऽपि न तस्यान- न्तकामजेतृत्वम् । किंतु यजमानस्यैव | होमकर्ता तु दक्षिणया परिक्रीतः । अतः स दक्षिणतिरिक्तं फलं न लभते । अयं प्रथमः प्रजापतिर्हिरण्यगर्भः पुवोक्तयाऽऽहुत्या - नन्तान्कामाञ्जिगाय । अतोऽग्ना आहवनीयाग्न्यायतनेऽग्निरनिं स्वाहा स्थापयामि | प्रकरणादयमर्थोऽवसीयते ॥ ३ ॥ ऋतसत्याभ्यां त्वा पर्युक्षामि ॥ ४ ॥ भाग्यम् — ऋतं मानसिकं सत्यम् । सत्यं वाक्कायिकम् | ताभ्यां हेऽने त्वा त्यां पर्युक्षा मे परिपश्चापरित उदकेन सिञ्चमि । त्वत्परितो वर्तमानोऽहं मनोवाक्कायैः सत्यं नातिक्रमिष्य इत्यर्थः ॥ ४ ॥ तन्तुं तन्वन्रजसो भानुमन्विहि ज्योतिष्मतः पथो रक्ष घिया कृतान् । अनुलवणं वयत जोगुवामपो मनुर्भव जनया दैव्यं जनम् ॥ ५ ॥ भाष्यम् – हेऽग्ने तन्तुं यज्ञं तन्वन्विस्तारयन्रजसो रञ्जनात्मकस्य लोकस्य भानुं भासकमादित्यमन्विहि अनुगच्छ रश्मिद्वारा सूर्यमण्डलं प्रविशेत्यर्थः । किं च ज्योतिष्मतः प्रकाशवतो यज्ञस्य पथो गमनमार्गान् । अथवा ज्योतिष्मतो दीप्तिमतः स्वर्गस्य पथो मार्गा- न्देवयानान्रक्ष पालय । वि.दृशान्मार्गान्धिया कर्मणा कृतान्सेपादितान् । किं च सोऽग्नि- जगु स्तोतॄणामपः कर्मनानैतत् । किमया व्याप्नं कर्मानुल्वणमनतिरिक्तं वयत करोतु यदेव यज्ञ उल्चणं क्रियते तस्यैवैमा शान्तिरिति हि ब्राह्मणम् । स त्वं मनुर्भव मन्तव्यो भव स्तुत्यो भवेत्यर्थः । किंच दैव्यं जनं देवसंवं जनयोत्पादय यज्ञाभिगमनवन्तं कुर्वि त्यर्थः ॥ ५ ॥ सुहुतकृतः स्थ सहुतं करिष्यथ ॥ ६ ॥ भाष्यम् – हेऽङ्गारा यूयं मुहुतकृतः सुहृतकारिणः स्थ भवथ । तस्मान्मुहुतं सुपकं यथा स्यात्तथा करिष्यथ कुरुतेत्यर्थः । व्यत्ययेन लृट् ॥ ६ ॥