पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१००

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमिहोत्रचन्द्रिका | अधिश्रितमध्यधिश्रितमधिश्रितं हि३म् ॥ ७ ॥ भाष्यम् – अधिश्रितमङ्गारेषु स्थापितम् । “ अभ्यासे भूयांसमर्थ मन्यन्ते " इति न्याथैनाऽऽम्रेडितम् । हिंकारः सात्वसंपादनार्थः । प्लतिः सांप्रदायिकी ॥ ७ ॥ U इळायास्पदं घृतवच्चराचरं जातवेदो हविरिदं जुपस्व । ये ग्राम्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्त्विति ॥ ८ ॥ भाष्यम् – हे जातवेदोऽग्स इलाया इडायामिडापायां पदमाधेयभूतं पद्यते स्थाप्यते सदिति व्युत्पत्तेर्घृतवद॒घृतयुक्तं चराचरं स्थावरजङ्गममाण्यात्मकम् । स्थावरजङ्गमात्मकप्रा- णिस्थितिभूतमित्यर्थः । इदमारेषु स्थाप्यमानं हविर्हयत इति हविः पयोयवाग्बोदना. दिरूपम् । जुपस्ब सेवस्त्र। ये विश्वरूपा ग्राम्याणां पशूनां गयाश्वाजाविपुरुषगर्दभोष्ट्राणाम् । ग्रामे भवा ग्राम्यास्तेषां सप्तानां मयि आहिताग्नौ पुष्टिरस्तु | सर्वेऽघि सप्त पशवो बाहु- ल्येन मम गृहे बर्तन्ताम् । तद्विभवद्वारा पुष्टो भवेयमिति भावः ॥ ८ ॥ अनिष्टे तेजो मा हार्षीत् ॥ ९ ॥ भाष्यम्-~-अग्झिर्गार्हपत्य/ग्निःते हविपस्तेजो ब्रह्मवर्चसादितेजःप्रापकं बीर्थ मा हार्षीन्मा विनाशयतु ॥ ९ ॥ शान्तिरस्यमृतमसि ॥ १० ॥ भाष्यम् – हे हर्बिस्त्वं शान्तिः शान्तिसाधकममृतममरणधर्मसाधकम् । आयुर्वै घृत- मितिवलक्षणा । असि ॥ १० ॥ अन्तरितं रक्षोऽन्तरिता अरातयः ॥ ११ ॥ -3 भाष्यम् – अन्तारैतमन्तर्धानमाप्तं रक्षो राक्षसजातिः । जातावेकवचनम् । अन्तरिता अन्तर्धानमाप्ता अरातयः शत्रवः । अनेनोल्मुकपरिहरणेनान्तर्भूय विघ्नं कुर्वन्तो नष्ट्वा भवन्त्वित्यर्थः ॥ ११ ॥ दिवे त्या, अन्तरिक्षाय त्वा, पृथिव्यै त्वा ॥ १२ ॥ भाष्यम्-हे हृत्रिः। त्वां द्युलोक आकाशेऽन्तरिक्षायान्तरिक्षलोके मेरुपृष्ठादारभ्याऽऽ- क्षुत्राद्ग्रहनक्षत्रताराविचिोऽन्तरिक्षलोकः | पृथिव्यै भूर्लोक आइवीचेरुपृष्ठं यावलोकः । सर्वत्र चतुर्थी सप्त्यम्यर्थे गटव्या | व्यत्ययो बहुलमिति सूत्रात् ॥ १२ ॥ सहुतकृतः स्थ सुहुतमकार्ष्ट ॥ १३ ॥ भाष्यम् – हेऽङ्गारा यूयं सुहृतकृतो हविर्देव्यप्रज्वालकाः स्थ भवध । यूयं सुद्भुतं सुट्टु हुतं यथा स्यात्तथा हविरकार्ष्ट कृतवन्तः ॥ १३ ॥