पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/१०१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | प्रत्युष्टं रक्षः प्रत्युष्टा अरातयो निष्टतं रक्षो निष्टप्ता अरातयः ॥ १४ ॥ भाष्यम् – स्रुक्स्रुवोरन्तर्भूतं रक्षो मलिनिमरूपं प्रत्युष्टं दग्धं भवतु | तथाऽरातयः शत्रवोऽपि प्रत्युष्टा दग्धा भवन्त्वित्यर्थः ॥ १४ ॥ ओमुन्नयानि ॥ १५ ॥ भाष्यम् - ऊर्ध्वं प्रापयाणि ॥ १५ ॥ ओमुन्नय ॥ १६ ॥ भाष्यम् – ऊर्ध्व प्रापय ॥ १६ ॥ भूरिळा भुव इळा स्वरिळा वृष इळा ॥ १७ ॥ भाष्यम् — अत्र स्रुचीडापात्रत्वमतिदिश्य भूर्भुवः स्वरिति लोकत्रयात्मकत्वमेव स्तूयते । वृधो वृद्धिकारिण्यः संतत्यादिवृद्धिकारिणीत्यर्थः । आर्षं बहुवचनम् ॥ १७ ॥ रजतां त्वाऽग्निज्योतिषं रात्रिमिष्टकामुपद्धे स्वाहा ॥ १८ ॥ । - भाष्यम् - रजतां रजतवर्णायमानां त्वा त्वामग्निज्योतिषमग्न्युद्दीपनकर्त्री रात्रिं राज्यामिष्टकामिष्टकाबदग्न्याधारभूनां समित्काष्ठे ह्यनिर्गुढस्तिष्ठति । उपदधे जुहोमि स्वाहा स्वाहेति प्रदानार्थकमव्ययम् । स्वाहा देवहविर्दाने " इत्यभिधानमालायाम् । अहोरात्राण्येवेष्टकारूपेण समाम्नातास्तत्तिरीयै:- यत्सायं प्रातराग्निहोत्रं जुहोत्याहुतीष्टका एव ता उपधत्ते यजमानोऽहोरात्राणि वा एतस्येष्टका य आहिताग्निर्यत्सायं मातर्जुहोत्यहोरात्राण्येवाऽऽत्वेष्टकाः कृत्वोपत्ते (तै० संहितायाम् ३ | ४।१०) । भाष्यम् — अग्निहोत्री कालद्वयेऽग्निहोत्रं जुहोतीति यत्ताः सर्वा आहुतिरूपा इष्टका एव यजमान उपधत्ते । यद्यप्यत्र मृन्मया इष्टका न सन्ति तथाऽपि यः पुरुष आहिताग्नि- वसि एतस्याहोरात्राण्येवेष्टकाः संपद्यन्ते । अतो यदि सायं प्रातर्नियमेन जुहोति तदानी - मनुष्ठानेनाहोरात्राण्येव प्राप्तकालरूपा इष्टकाः कृत्वोपधानं कृतवान्भवति ॥ (३।४। १० ) ॥ १८ ॥ विद्युदसि विद्य मे पाप्मानमनौ श्रद्धा ॥ १९ ॥ भाष्यम् – हे देवते त्वं विद्वियोगहेतुरसि । अतो मे पाप्मानं विद्य वियोजय । अग्नावग्निसाध्ये कर्मणि अग्निहोत्रे मे श्रद्धा च'स्तु ॥ १९ ॥