पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६४ अग्निहोत्रचन्द्रिका | योनिसंकरदोषेण युज्यते तस्मात्सर्व देवोत्तरारणिनिष्पन्नः प्रमन्थो भवेदिति पूर्वार्धोक्तेऽर्थे हेतुवचनमुत्तरार्धम् ॥ १३ ॥ आर्द्रा सशुषिरा चैव घुणाङ्गी स्फुटिता तथा । न हिता यजमानानामरणिर्नोत्तरारणिः ॥ १४ ॥ प्रभा—अरण्योत्रिंशेषमाहाऽऽर्देति । सशुषिरा सच्छिद्रा । घुणः कीटविशेषः । सोऽङ्गे यस्याः सा वुणाङ्गी । स्पष्टमन्यत् ॥ १४ ॥ परिधायाहतं वासः प्रावृत्य च यथाविधि । विभृयात्माङ्मुखो यन्त्रमावृता वक्ष्यमाणया ॥ १५ ॥ चात्रबुध्ने प्रमन्थाग्रं गाढं कृत्वा विचक्षणः । कृत्वोत्तराग्रामरणिं तहुघ्नमुपरि न्यसेत् ॥ १६ ॥ चात्रोर्ध्वकीलकाग्रस्थामोविलीमुदगग्रगाम् । विष्टभ्य धारयेद्यन्त्रं निष्कम्पं प्रयतः शुचिः ॥ १७ ॥ त्रिरुद्वेष्टयाथ: नेत्रेण चात्रं पत्न्यहतांशुका । पूर्वे मन्थेदरण्यन्ते प्राच्यग्नेः स्याद्यथा च्युतिः ॥ १८ ॥ प्रभा — इदानीं मन्थनप्रकारमाह - परिघायेति । अहतं यन्त्र निर्मुक्तं नवमिति यावत् | वासः परिधाय प्रावृत्य चोत्तरीयमपि विधाय । यथाविधीत्युभयत्र संबध्यते । ततश्च परि धान उत्तरीयकरणे च- परिधानाद्वहिः कक्षा निबद्धा ह्यासुरी भवेत् । धर्म्ये कर्मणि विद्वद्भिर्वर्जनीया प्रयत्नतः ॥ इति । सव्यादंसात्परिभ्रष्टः कटिदेशे धृताम्बरः । एकवस्त्रं तु तं विद्यादैत्रे पित्र्ये च वर्जयेत् || इति चैवमादिस्मृयन्तरोक्तो विधिरनुसरणीय इत्युक्तं भवति । एवंभूतः प्राङ्मुखः सन्वक्ष्यमाणया परिपाट्या मन्थनयन्त्रं धारयेत् ॥ १५ ॥ चात्रबुध्न इति । विचक्षणो मन्थनप्रकाराभिज्ञः | चात्रस्य मूले प्रमन्थस्याग्रं रन्ध्रपूरणेन निश्चलं कृत्वाऽरणिमुत्तरात्रां कृत्वा दण्डवदर्ध्वस्थितं चात्रमरणेरुपर स्थापयेत् ॥ १६ ॥ चात्रोर्ध्वेति । चात्रस्योर्ध्वे यस्कीलकं लोहशङ्कुस्तदग्रस्थितामुदगग्रामोविलीं कृत्वा विष्टभ्याऽऽश्रित्य गढं पीडयित्वा वा यन्त्रं निष्कम्पं संगद्य शुचिः कृताचमनादिः प्रयतः प्रयत्नवांस्तद्गतचित्त इति यावत् | यन्त्रं धारयेत् ॥ १७ ॥ त्रिरुद्वेष्टषेति । अथानन्तरं नेत्रेण पूर्वोक्तलक्षणेन चात्रमुपर्युपार क्रमेण वारत्रयं वेष्टय- स्वाहतवसना पत्नी पूर्वे अरण्यन्ते मन्थेत् । अरणिपूर्वान्त मन्थनस्य प्रयोजनमाह-