पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ६३ अङ्गुष्ठमात्रमिति । द्वाबङ्गुष्टा एवमुत्तरत्र बस्तिर्नाभेरधो भागः | स्पष्टमन्यत् ॥ ९ ॥ ऊरू जङ्घे चति ऊरू जङ्वे पादौ चेत्येतानि यथाक्रमं चतुरङ्गुष्ठत्र्यङ्गुष्ठैकाङ्गु- ष्ठपारमितानि भवन्ति । सोऽयं चतुर्विंशत्यङ्गुष्ठानां विभागः । एतेऽरण्यवयवा याज्ञिकैः सर्वतोभावेन निश्चयेन कथिताः ॥ १० ॥ यत्तद्गुह्यमिति प्रोक्तं देवयोनिस्तु सोच्यते । तस्यां यो जायते वह्निः स कल्याणक्रुदुच्यते ॥ ११ ॥ अन्यत्र मध्यते यत्तु तद्रोगभयमाप्नुयात् । प्रथमे मन्थने ह्येष नियमो नोत्तरेषु च ॥ १२ ॥ उत्तरारणिनिष्पन्नः प्रमन्थः सर्वदा भवेत् । योनिसंकरदोषेण युज्यते ह्यन्यमन्थकृत् ॥ १३ ॥ प्रभा --मन्थनस्थानमाह यत्तदिति । यत्तदिति सर्वनामद्येन प्रसिद्धिमवद्योतयति । यद्गुह्यमिति कथितं सा देवस्या निरुत्पत्तिस्थानमुच्यते । सेति विधेयप्राधान्यविवक्षया स्त्रीत्वेन निर्देशः । तस्यां मन्थनेन योऽग्निरुत्पद्यते स कल्याणक्रुदभ्युदयकारीति मुनिभिः कथ्यते । गोभिलपुत्रस्त्वाह - मूलादष्टाङ्गुलमुत्सृज्य त्रीणि त्रीणि च पार्श्वयोः । देवयोनिः स विज्ञेयस्तत्र मथ्यो हुताशनः || मूलादष्ठ|ङ्गुलं त्यक्त्वा अग्रात्तु द्वादशाङ्गुलम् । देवयोनिः स विज्ञेयस्तत्र मथ्यो हुताशनः ॥ इति । तत्र प्रथमवचनेन गुह्यस्य देवयोनित्वं भङ्ग्यन्तरेणोक्तम् । द्वितीयवचनेन तत्संधैरिति विशेषः । सोऽयं विकल्पः ॥ ११ ॥ अन्यत्रेति । यदिति मन्थनक्रियाविशेषणम् । यत्पुनर्देवयोनेरम्यत्र मध्यते, तस्माद्धेतो रोगभयं प्राप्नोति मन्थनकर्ता । अयं च नियमः प्रथमाधाने यन्मन्थनं क्रियते तत्रैव न पुनराधाने कर्तव्ये द्वितीयादिमन्थनेषु ॥ १२ ॥ इदानीं प्रमन्थनिर्माणे विशेषमाह -- उत्तरारणीति । उत्तरारणेः सकाशात्काष्ठ शकलमुद्दृत्य तेन ममन्थो निष्पन्नो भवेत् । सर्वदा द्वितीयाद्याधानेष्वपि । अन्येन काष्ठेन प्रमन्थकरणे दोषमाह - योनीति | मन्थः प्रमन्थः । यस्मादन्येन काष्ठेन प्रमन्थकर्ता