पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/९४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

६२ अग्निहोत्रचन्द्रिका | अष्टाङ्गुल: प्रमन्थ: स्याच्चात्रं स्याद्वादशाङ्गुलम् | ओविली द्वादशैव स्यादेतन्मन्थनयन्त्रकम् ॥ ५ ॥ प्रभा—अष्टाङ्गुल इति । चात्रमध्यस्थो मन्थनार्थः काष्ठविशेषः प्रमन्थ इत्युच्यते । स खल्त्रष्टाङ्गुलपरिमाणः स्यात् । चात्रमोविली च द्वादशाङ्गुलपरिमाणं स्यात् । एतत्सर्व मिलितं यथाविन्यस्तं मन्थनयन्त्रमिति कथ्यते । मन्थनयन्त्रकमिति स्वार्थे कन् । गोभि- लपुत्रेणाप्येवमेव मन्थनयन्त्रमुक्तम् | केवलमरण्योर्दीर्घतायामन्यदपि परिमाणद्वय मुक्तम् । तथा च गृह्यसंग्रहः— आश्वथ तुः शमीगर्भामरणीं कुर्वीत सोत्तराम् । ऊरुदीर्घा रत्निदीर्घा चतुर्विंशाङ्गुलां तथा ॥ इति स्वादिरे बध्नाति, पालाशे बध्नाति, रोहितके बध्नाति, " इतिवदमीषां विकल्लगे बोद्धव्यः ॥ ५ ॥ अद्गुष्ठाङ्गुलिमानं तु यत्र यत्रोपदिश्यते । तत्र तत्र बृहत्पर्वग्रन्थिभिर्मिनुयात्सदा ॥ ६ ॥ गोबालैः शणसंमिश्रैखिवृद्धत्तमन॑शुकम् । व्यामप्रमाणं नेत्रं स्यात्ममध्यस्तेन पावकः ॥ ७॥ प्रभा – अङ्गुष्ठेति । बृहत्पूर्वप्रन्धिभिर्मभ्यरेखाभिः । निगदव्याख्यातमन्यत् ॥ ६ ॥ 1 मन्थनसाधनं नेत्रमाह———गोबालैरिति । शणसंमिश्र स्यादिति संबन्धः ॥ नेत्रं रज्जुः। नेत्रं बिशिनष्टि - ऋदित्यादिना | त्रिवृत्रिगुणं वृत्तं वर्तुलम् । अनं- शुकम् अंशुरहितम् । अंशवस्तन्तूनां क्षुद्रा अवयवाः । व्याप्रमाणं विस्तृतसहस्तवाड- द्वयतिर्यगन्तरालं ब्याम उच्यते | तत्परिमाणं तेन नेत्रेण प्रकर्षेण निर्मन्थनीयः ॥ ७ ॥ मूर्धाक्षिकर्णवक्त्राणि कन्धरा चापि पञ्चमी । अङ्गुष्ठमात्राण्येतानि द्व्यङ्गुलं वक्ष उच्यते || ८ || अङ्गुष्ठमात्रं हृदयं व्यङ्गुष्ठमुदरं स्मृतम् | एकाङ्गुष्ठा कटिर्जेया द्वौ बस्ति तु गुह्यकम् ॥ ९ ॥ ऊरू जङ्घे च पादौ च चतुत्र्येकं यथाक्रमम् । अरण्यवयवा होते याज्ञिकैः परिकीर्तिताः ॥ १० ॥ प्रभा —- अरण्यत्रयवं तत्परिमाणं चाऽऽह - मूर्धाक्षीति त्रिभिः । वक्त्रं मुखम् | कन्धरा ग्रीषा। ग्रीवाहृदययोर्मध्यं बक्षः । सुगममन्यत् ॥ एतच्च मूलादारभ्य मानं वृक्षदार्वादीनां. तथैव मानस्यौत्सर्गिकत्वादिति नारायणोपाध्यायाः ॥ ८॥