पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अमिहोत्रचन्द्रिका | अभयं वोऽभयं मेऽस्तु । इत्युपस्थाय प्रदक्षिणमावृत्य तीर्थेनैव निष्क्रम्य ' मा प्रगाम' इति जपन्प्रव्रज्य सुगः " इति पन्थानं प्राप्य ब्रूयात् । ५४ GE सदा प्रत्येत्य- _" अपि पन्थाम् इत्युक्त्वा विहृतान्प्रज्वलितांस्तीर्थेनैव प्रपद्य तत्रैव स्थित्वा " अभयं वः " इत्युपस्थाय मनोज्योतिरित्यादि पूर्ववत् । अहरहः—दक्षिणाग्निहोमानन्तरम् " अभयं वः " इत्युपतिष्ठेत । अनुपस्थिताग्नेः प्रवास इहैव सन्नित्येतदेव । नान्यत्किंचित् । इति प्रवासादागतस्य विधिः |