पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका मनो ज्योतिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो यो अनिष्टास्ता: संतनोमि हविषा घृतेन स्वाहा | मनसे ज्योतिष इदं न मम । इति हुत्वा त्यजेत् । अत ऊर्ध्वं वक्ष्यमाणो विधिर्दशरात्रादर्वाक्प्रवासं कृत्वाऽऽगत- स्योर्ध्वमागतस्य च समान एवेति ज्ञेयम् । द्वयोर्बद्दूनामप्यग्निहोत्रहोमविच्छेदे सति चतुर्गृ- हीतं जुहुयात् । तत्र संकल्पः- अग्निहोत्रहोमविच्छेदनिमित्तप्रत्यवायजनितदोषपरिहारद्वारा श्रीपरमेश्वरप्री- त्यर्थं प्रायश्चित्ताज्याहुतिं होष्यामि । इति संकल्याऽऽज्यं पूर्ववत्तूष्णीं त्रिरुपूय जहां गृहीत्वा पूर्ववस्थित्वा जुहुयात- मनो ज्योतिर्जुषतामाज्यं मे विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो या अनिष्टास्ता: संतनोमि हविषा घृतेन स्वाहा | मनसे ज्योतिष इदं न मम । इति हुत्वा त्यक्त्वा च सर्वविहारं परिसमुह्य विहारस्योत्तरत उपविश्य भूर्भुवः स्वः । इति वाचं विसृज्य विहारादबहिराचम्य अनेन प्रवासागमननिमित्तविधिना कृतेन श्रीपरमेश्वरः प्रीयताम् । ततो गृहानीक्षेत - गृहा मा बिभीतोप वः स्वस्त्येवोऽस्मासु च प्रजायध्वं मा च वो गोपती रिषत् । इति । ततो गृहान्प्रपद्येत- गृहानहं सुमनसः प्रपद्ये वीरघ्नो वीरवतः सुवीरान् । इरां वहन्तो घृतमुक्षमाणास्ते सुमना: संविशानि || इति । प्रपद्यमान एवं प्रपद्येत -- शिवं शग्मं शं योः शं योः । इति त्रिरनुमन्त्र्य प्रपद्येत । ततो गृहान्प्रपन्नं तमाहिताग्निं यः कोऽप्यवगतमप्यप्रियं न निवेदयेत् । इति ॥ अत्र प्रबत्स्यन्प्रत्येल्याहरहः प्रयोगान्तरं कुर्यादित्यमवीवृतद्वृत्तिकृत् । भवत्स्यन् – अग्नीन्त्रिहृत्य प्रज्वाल्याऽऽचम्य तीर्थेन प्रपद्य तत्रैव स्थित्वा सर्वा नग्नीन्सकदेव - -