पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | अथ समारोपसूत्रम् | समारोपयेदयं ते योनिर्ऋत्विय इत्यरणी गार्हपत्ये प्रतितपेत्पाणी वा या ते अग्ने यज्ञिया तनूस्तयेह्यारोहाऽऽत्माऽऽत्मानमच्छा वसूनि कृण्वन्नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमान इति यदि पाण्यो- ररणी संस्पृश्य मन्थयेत्प्रत्यवरोह जातवेदः पुनस्त्वं देवेभ्यो हव्यं वह नः प्रजा- नन् । प्र॒जां पुष्टिं रयिमस्मासु धेह्यथा भव यजमानाय शं योरिति ॥ १ ॥ इति समारोपसूत्रम् । ५५ सवृत्तिसमारोपविधिसूत्रभाष्यम् | समारोपयेदयं ते योनिरृत्विय इत्यरणी गार्हपत्ये प्रतितपेत् ॥ १ ॥ दे० भाष्यम् – इदानीं समारोपणविधानं वक्ष्यते । अयं ते योनिऋत्विय इत्येत- व्यर्चा । अरणी उत्तरारण्यवरारणी च | गार्हपत्येऽग्नौ प्रतितपेदध्वर्युर्यजमानो वा । एते- नैव मन्त्रेण दक्षिणायौ समारोपयेत् । गार्हपत्यग्रहणं गार्हपत्यानुक्रमे सर्वेषु समारोप- येद्विकृतावपि सर्वेषु समारोपणं दर्शयति । अग्नीनस्य समारोप्येति पृथगरणीष्वनी- न्समारोप्येत्यन्येषाम् । सर्वेष्वग्निषु द्वाभ्यामेवारणीभ्यां समारोपणमन्येपाम् । अस्माकं त्वन्वाहितेष्वजस्त्रेषु च न ॥ १ ॥ वृत्तिः– पूर्वे एव द्वे अरणी गार्हपत्ये प्रतितपेन्नाग्न्यन्तरे । यदि दक्षिणाग्निर्भिन्न- योनिस्तदा तस्यारण्यन्तरे तेनैत्र मन्त्रेण समारोपणं भवति ॥ १ ॥ पाणी वाया ते यज्ञिया तनूस्तयेह्यारोहाऽऽत्माऽऽत्मानमच्छा वसूनि कृण्वन्नर्या पुरूणि यज्ञो भूत्वा यज्ञमासीद योनिं जातवेदो भुव आजायमान इति ॥ २ ॥ A दे० भा० - पाणी वा गार्हपत्ये प्रतितपेद्यजमानः । 'या ते अग्ने' इत्यनेन मन्त्रेण । पाणी प्रतितपेदरणी वेति बिकसः । यजमान एवं प्रतितपेन्मन्त्रलिङ्गादात्माऽऽत्मानम- च्छेति ॥ २ ॥ वृत्तिः—द्वौ पाणी गार्हपत्ये सकृदेव प्रतितपेत् । द्वयोरपि समारोपणं यजमान एव कुर्यात् । पूर्वमन्त्रस्य प्रत्याशीष्ट्रात् । उत्तरस्य चाऽऽत्मानमितिलिङ्गात् । कर्त्रन्तरांवेधः- नाभावाच ॥ २ ॥ यदि पाण्योररणी संस्पृश्य मन्थयेत्मत्यवरोह जातवेदः पुन॑स्त्वं देवेभ्यो