पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्र चन्द्रिका | यावद्गतेऽम्यागारच्छदिर्न दृश्यते ताबदग्निभ्यो दूरं गत्वा वाचं विसृज्याभिलषितदे- शगामिनं पन्थानमवरुह्य ब्रूयात्- सदा सुगः पितुमाँ अस्तु पन्था मध्वा देवा ओषधीः संपिवृक्त | भगो मे अग्ने सख्येन मृध्या उद्रायो अश्यां सदनं पुरुक्षोः ॥ इति । ( म०३ - अ०५-सू०२ ) यदि कदाचिद्यथोक्तोपस्थानमकृत्वैव गन्तव्यं स्याद्दैवान्मानुषाद्वा निमित्तात्तदा तत्रैव स्थितः सर्वाननी नुत्पत्तिक्रमेण तं तमग्नि मनसा ध्यात्वा तां तां दिशमभिमुखमुपतिष्ठेत- इहैव सन्तत्र सन्तं त्वाने हृदा वाचा मनसा वा विभर्मि | तिरो मा सन्तं मा महासीज्योतिषा त्वा वैश्वानरेणोपतिष्ठते ॥ इति । तत आचम्य ५१ अनेन प्रवासोपस्थानेन श्रीपरमेश्वरः मीयताम् | इति प्रवासोपस्थानविधिः ।