पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

' yo अग्निहोत्रचन्द्रिका | प्रवासोपस्थानम् । ( इदमाहिताग्निनैव कार्यम् ) ) । आहिताग्निः –वाग्यतो भूत्वा ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरप्रीत्यर्थं प्रवासविधिनाऽग्नीनुपस्थास्ये । प्रवासं करिष्यन्नाहवनीयादी नग्नीन्विहृत्य प्रज्वल्याऽऽचम्याऽऽ(नात्राग्निहोत्रीयोद्धरणप्रण- यननिधानमन्त्राः ) हवनीयस्यात्यन्तसमीपं गत्वा तमुपतिष्ठेत- शंस्य पशून्मे पाहि । एवमुपस्थायोत्तरेण विहारं गत्वा गार्हपत्यस्य प्रत्यगुदग्देशेऽत्यन्तसमीपं गत्वा तमुप- तिष्टेत- नर्य प्र॒जां मे पाहि । एवमुपस्थायापरेण बिहारं गत्वा दक्षिणाग्नेः प्रत्यगुदग्देशेऽत्यन्तसमीपं गत्वा तमुप- तिष्ठेत- अथर्व पितुं मे पाहि । एवमुपस्थाय तत्रैव तिष्ठन्गार्हपत्याहवनीयावीक्षेत- इमान्मे मित्रावरुणो गृहान्गोपायतं यु॒वम् । अविनष्टानविहृतान्पूषैनानभिरक्षत्वस्माकं पुनरायनात् || इतीक्षित्वा पुनस्तेनैव मार्गेणाऽऽहवनीयसमीपं गत्वा ततो यथेष्टदेशगमनाय प्रदक्षिण- मावर्तमान आहवनीयमुपतिष्ठेत- मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे । तत्त्वं विभृहि पुनराममैतोस्तवाहं नाम बिभराण्यग्ने || इत्युपस्थाय पृष्ठतोऽग्नीननक्षमाणो मा प्रगामेति सूक्तं जपन्यथेष्टदेशं गच्छेत् । मा प्रगाम पथो वयं मा यज्ञादिन्द्र सोमिनः | मां तस्थुर्नो अरातयः ||१|| यो यज्ञस्य प्रसाधनस्तन्तुर्देवेष्वाततः । तमाहुतं नशीमहि ॥ २ ॥ मनोन्वा हुवामहे नाराशंसेन सोभेन | पितॄणां च मन्मभिः ॥ ३ ॥ आ त एतु मनः पुनः क्रत्वे दक्षाय जीवसे । ज्योक्च सूर्य दृशे ॥ ४ ॥ पुनर्नः पितरो मनो ददातु दैव्यो जनः । जीवं व्रातं सचेमहि ॥ ५ ॥ वयं सोम व्रते तव मनस्तनूषु बिभ्रतः | प्रजावन्तः सचेमहि ॥६॥ इति ॥