पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | आहितानिप्रवासंविधिसूत्रम् । ४३ प्रबत्स्यन्नग्नीन्प्रज्ञल्याऽऽचम्यातिक्रम्योपतिष्ठत आहवनीयं शंस्य पशून्मे पाहीति। गार्हपत्यं नर्यप्रजां मे पाहीति । दक्षिणमथर्वपितुं मे पाहीति | गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रा- बरुणौ गृहान्गोपायतं यु॒वम् । अविनष्टानविहृतान्पूषैनानभिरक्षत्वस्माकं पुनरायनादिति । यथेतं प्रत्येत्य प्रदक्षिणं परियन्न, हवनीयमुपतिष्ठते । मम नाम प्रथमं जातवेदः पिता माता च दधतुर्थदने | तत्त्वं बिभृहि पुनराममैतोस्तवाहं नाम बिभराण्यग्न इति प्रव्रजेदनपेक्षमाणो मा प्रगामेति सूक्तं जपन्नारादग्निभ्यो वाचं विसृजेत सदा सुगः पितुमाँ अस्तु पन्था इति पन्थानमवरुह्यानुपस्थिताग्निश्चेत्प्रवासमापद्यतेहैव सन्तत्र सन्तं त्वाऽग्ने हृदा वाचा मनसा वा बिभर्मि। तिरो मा सन्तं मा प्रहासी ज्योतिपा त्वा वैश्वानरेणोपतिष्ठत इति प्रतिदिशमग्नीनुपस्था यापि पन्थामगन्महीति प्रत्येत्य समित्पाणिग्यतोऽमीञ्ज्वलतः श्रुत्वाऽभिक्रम्याऽऽहवनीयभी- क्षेत विश्वदानीमाभरन्तोऽनातुरेण मनसा । अग्ने मा ते प्रतिवेशा रिषाम | नमस्ते अस्तु मीळुषे नमस्त उपसद्वने । अग्ने शुम्भस्व तन्वः समारय्यासृजेत्यग्निषु समिध उपनिधायाऽऽहवनी- यमुपतिष्ठते । मम नाम तव च जातवेदो वाससी इव विवसानौ चरावः । ते बिभृवो दक्षसे जीवसे च यथायथं नौ तन्वौ जातवेद इति । ततः समिधोऽभ्यादध्यादाहवनीये - अगन्म विश्ववेदसमस्मभ्यं वसुवित्तमम् । अग्ने सम्राळभिद्युम्नमभिसह आयच्छस्व स्वाहेति । गार्हपत्येऽयमग्निर्गृहपतिर्गार्हपत्यः प्रजाया बसुबित्तमः । अग्ने गृहपतेऽभिद्युन्ममभिसह आयच्छस्व स्वाहेति । दक्षिणेऽयमग्निः पुरीष्यो रयिमान्पुष्टिवर्धनः । अग्ने पुरीष्याभिद्युम्न मभिसह आयच्छस्व स्वाहेति । गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रावरुणौ गृहानजूगुपतं युवम् | अविनष्टानविहृतान्पूषैनानभ्यराक्षीदास्माकं पुनरायनादिति यथेतं प्रत्येत्य प्रोष्य भूयो दशरात्राच्चतुर्गृहीतमाज्यं जुहुयान्मनोज्योतिर्जुषतामाभ्यं मे विच्छिन्नं यज्ञं समिमं दधातु । या इष्टा उषसो या अनिष्टास्ता: संतनोमि हविषा वृतेन स्वाहेत्यग्निहोत्राहोमे च प्रतिहोममेके परिसमुह्योदग्विहार।दुपविश्य भूर्भुवः स्वरिति वाचं विसृजेत गृह्यनक्षेताप्यनाहिताग्निर्गृहा मा बिभीतोप वः स्वस्त्येवोऽस्मासु च प्रजायध्वं मा च वो गोपती रिषदिति प्रपद्येत गृहानहं सुमनसः प्रपद्ये वीरघ्नो वीरवतः सुवीरानू । इरां वहन्तो घृतमुक्षमाणास्तेष्वहं सुमनाः संविशानीति शिवं शग्मं शंयोः शंयोरिति त्रिरनुत्रीक्षमाणो विदितमप्यलीकं न तदहर्ज्ञापये- युर्विज्ञायतेऽभयं वोऽभयं मेऽस्त्वित्येवोपतिष्ठेत प्रवसन्प्रत्येत्याहरहर्वेति ॥ ५ ॥