पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४४ अग्निहोत्रचन्द्रिका | सवृत्त्याहितानिप्रवास विधिसूत्रभाष्यम् प्रवत्स्यन्नग्रीन्मज्वल्याऽऽचम्यातिक्रम्योपतिष्ठते ॥ १ ॥ दे० ० भाष्यम् – प्रवसतो यजमानस्य यदुच्यते प्रवत्स्यन्प्रवसिष्यन्यजमान इदं वक्ष्य- माणं कृत्वा प्रवसेत् । प्रकृष्टो वासो यत्र गत्वा यो होमकाल आगन्तुं न शक्नोति स प्रवासः । प्रवसिष्यन्यजमानः प्रवत्स्यन्प्रवसिष्यन्नवासं गमिष्यन्निदं विधानं कुर्यात् । अधिकार. स्तदेतदग्नीन्प्रज्वल्याग्नीन्विहृत्य भवत्यजस्त्रान्वा प्रज्वल्य सुसमिद्धान्कृत्वाऽऽचम्य प्रयतोऽपि पुनराचम्यातिक्रम्य ततः प्रविश्य तत उपतिष्ठते ॥ १ ॥ वृत्तिः——यस्मिन्प्रामेऽग्नय आसते तस्मात्प्रदेशाद्ग्रामान्तर एकरात्रावमो वासः प्रवासः। तं करिष्यन्प्रबत्स्यन्भवति । अग्नीनिति बहुवचनात्सर्वान्विहृत्य प्रज्वलयेत् । प्रज्वल्याऽऽ. चम्य तीर्थदेशेन प्रपद्या तिक्रम्याग्नीनुतिष्ठते । अतिक्रम्येति । अव्यक्तोपस्थानदेशमतिक- म्यात्यन्तसमीपं गत्वा तं तमग्निमुपतिष्ठत इत्यर्थः । इदं कर्माऽऽहिताग्निः स्वयमेव कुर्यात् ॥ १ ॥ । इदमनेनेत्याह- आहवनीयं शंस्य पशून्मे पाहीति | गार्हपत्यं नर्यप्रजां ये पाहीति | दक्षिण- मथर्वपितुं मे पाहीति | गार्हपत्याहवनीयावीक्षेतेमान्मे मित्रावरुणौ गृहान्गोपायत युवम् । अविनष्टानविहृतान्पूषैनानभिरक्षत्वस्माकं पुनरायनादिति ॥ २ ॥ दे० भाष्यम् – आहवनीयमा शंस्येत्यतेन मन्त्रेण | प्रज्वल्येति प्रज्वलनमिष्ठं विधी- यते । आचमनं कर्माङ्गं प्रयतस्यापि विधीयते । आचम्योपतिष्ठत इत्युक्ते तत्राऽऽचम्यैवो- पस्थानं प्राप्तम् । आरादुफ्कारित्वादुपस्थानस्य । तस्मादतिक्रम्योपतिष्ठत इत्युच्यते । आहव- नीयग्रहणं गार्हपत्यविवक्षार्थम् । अन्यथा गार्हपत्यस्यैवायं मन्त्रः स्यात् । गार्हपत्यं गत्वो- पतिष्ठते नर्यप्रजां मे पाहील्यनेन मन्त्रेण | दक्षिणाग्निमुपतिष्ठते ' अथर्व इत्यनेन मन्त्रेण | गार्हपत्याहवनीया अग्नी ईक्षते ' इमान्मे इत्यनेन मन्त्रेण ॥ २ ॥ । 3 वृत्तिः—दक्षिणाग्निमुपस्थाय तत्रैच तिष्ठन्गार्हपत्याहवनीयावीक्षते-इमान्मे मित्रावरुणा इति । उत्तरत्र ‘ यथेतं प्रत्येत्य ' इतिवचनात्तत्रैव तिष्ठन्निति लभ्यते । द्विवचनलिङ्गायु- गपदेवेक्षेत ॥ २ ॥ यथेतं प्रत्येत्य प्रदक्षिणं पर्यन्नाहवनीयमुपतिष्ठते । मम नाम प्रथमं जातवेदः पिता माता च दधतुर्यदग्रे | तत्त्वं विभृहि पुनराममैतोस्तवाहं नाम बिभरा- व्यग्न इति ॥ ३ ॥