पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

४२ अग्निहोत्रचन्द्रिका । शेषं नित्यहोमवत् । अनेन समस्याग्निहोत्रहोमेन कृतेन कर्मणा श्रीपरमेश्वरः प्रीयताम् । इदमपि पक्षान्तरं स एवाऽह— सायंतनान्समस्याऽऽदौ सर्वान्मातस्तनानपि । पुनस्तानुभयान्सायं समस्येदुक्तमार्गतः ।। यावन्तोऽत्र समासास्ते सर्वे सायमुपक्रमाः । प्रातःकालापवर्गाश्च न तु प्रातरुपक्रमाः ॥ इति समस्याग्निहोत्रप्रकारः । १ पक्षहोमः– पक्षशब्दः पञ्चदशदिनात्मकार्धमासवाचकः । अत्र तु प्रतिपदि साय- मारभ्यामावास्याप्रातःपर्यन्तकालवाचकः । तथा च तेषु दिवसेषु कर्तव्या येऽग्निहोमास्ते सर्वे प्रतिपदि सायं सायंतना द्वितीयायां प्रातः प्रातस्तना होतव्याः | तस्य कर्मविशेषस्य पक्षहोम इति नामधेयम् । अध्वर्युभ्योऽयं ग्राह्यः | - २ शेषहोम:- -नात्र प्रतिपद्येव सायमित्यादिनियमः । अपि तु पक्षमध्ये पञ्चषा होमा निर्वर्तिताः । अवशिष्टा होमा ये पक्षहोमन्यायेन निर्वर्त्यन्ते स शेषहोमः । ३ समस्यहोमः – प्रातर्होमाः सायमेव यत्र हूयन्ते सायंहोमेन सह समस्यैकीकृत्य यत्र प्रातर्होमो हूयते स समस्यहोम इति ।