पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | शेषहोममकारः । आहिताग्निः— ममोपात्तदुरितक्षयद्वारा होत्रं होप्यामि । श्रीपरमेश्वरप्रीत्यर्थ शेषहोम रूपमग्नि- येन प्रकारेण पक्षहोम उक्तस्तेनैव प्रकारेण शेपहोमः कार्य: । अयं च विशेषः- प्रतिपद्व्यतिरिक्त्रदिने द्वितीयादिषु यस्मिन्दिने चाऽऽपत्प्र. तिस्त छिनमारभ्य पर्बहोमदिना- प्रागथवा यद्दिने चाऽऽपन्निवृत्तिस्तद्दिनपर्यन्तं वा भवति । सर्वोऽप्ययं समस्यहोम एव । आपन्निमित्तको ट्र्यादिदिनात्मकोऽपि भवतीति तदतन्मण्डनः संजग्राह प्रथमकण्डि- कायाम्- एवं प्रतिपदोऽन्यत्र यत्राऽऽपदुपपद्यते । तथैवौपवसध्याहात्माग्यत्राऽऽपद्विनश्यति ॥ तृतीयायां चतुर्थ्यो वा पञ्चम्यां वा परत्र वा । तदादीनां तदन्तानां होमानां स्यात्समस्यता || एवं पक्षहोमवच्छेषहोमरूपमग्निहोत्रं हुत्वा - - अनेन पक्षहोमरूपाग्निहोत्राख्येन कृतेन कर्मणा परमेश्वरः श्रीयताम् । इति शेषहोमप्रकारः । समस्यहोमप्रकारः । आहिताग्निः – ममोपात्तदुरितक्षयद्वारा श्रीपरमेश्वरमीत्यर्थं समस्याग्निहोत्रं होष्यामि । सायंप्रातर्होमौ सायं समस्य होतव्यौ | तदेतच्छ्लोकयामास मण्डनः- सायंप्रातस्तनौ होमावुभौ सायं समस्य तु । आपन्नौ जुहुयात्तत्र समिदेकाऽथवा द्वयम् || सायंहोमस्य मुख्यत्वात्तदीयं तन्त्रभिष्यते । चतस्र आहुतीः कुर्यात्तत्र द्वे सायमाहुती || द्वे मातराहुती सायं होमे चैका समिद्यदि । समित्कृता द्वितीया चेत्सा भवेत्रातराहु ॥ द्विः सायं होमवन्मज्याद्धिः मातहमिचत्सुचम् ||