पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

COP अग्निहोत्रचन्द्रिका | सप्तऋषिभ्यः स्वाहा । आहिताग्निः—सप्तऋषिभ्य इदं न मम । एकः -पुनः स्रुचमद्भिः परयित्वादीच्याम् इतरजनेभ्यः स्वाहा । आहिताग्नि: - इतरजनेभ्य इदं न मम । एकः– पुनः स्रुचमद्भिः प्रयित्वा कुशदेशे पृथिव्याममृतं जुहोस्यग्नये वैश्वानराय स्वाहा । - आहिताग्निः – अग्नये वैश्वानरायेदं न मम । एकः -- पुनः स्रुचमद्भिः पुरयित्वा गार्हपत्यस्य पश्चात् माणमस्ते जुहोम्यमृतं माणे जुहोमि स्वाहा । आहिताग्निः – माणायामृतायेदं न मम । एक: -- आहवनीये स्रुचे मताप्यान्तर्वेदि निदध्यात्परिकर्मिणे वा प्रयच्छेत् । ततः पूर्वेणाऽऽहवनीयं बिहारस्प दक्षिणदेशं गत्वाऽऽहवनीयस्य दक्षिणत उदङ्मुखस्तिष्ठन्त्राह- बनीये तिस्रः समिध आयात् । तत्र प्रथमां समन्त्रां दीदिहि स्वाहा । आहितांग्निः-- अग्नय इदं न मम । एक:--अन्ये द्वे समिधौ तृष्णी मेवाऽऽहवनीये प्रक्षिपेत् । तथैव दक्षिणाग्नदक्षिणं गस्वा गार्हपत्यस्य दक्षिणत उदङ्मुखस्तिष्ठ॑स्तिस्रः समिधो गृहीत्वा प्रथमां समन्त्रां दीदाय स्वाहा । आहिताग्निः-- अग्नय इदं न मम । एक:- ततो द्वे तृष्णीमेव गार्हपत्येऽग्नौ प्रक्षिपेत् । ततो दक्षिणाझेदक्षिणत उदङ्मुख- स्तिष्ठस्तिस्रः समिधो गृहीत्वा प्रथमो समन्त्रां दीदिदाय स्वाहा । आहिताग्निः --- अग्नय इदं न मम । एकः-~~-ततोऽन्ये द्वे समिधौ तूष्णीमेत्र दक्षिगाग्नावादध्यात् । तत उत्तरत एत्य पुनः प्रत्येस परिसमूहलपर्युक्षणे कृत्वाऽऽचामेत् । आहिताग्निः- आचम्यानेन सायमग्निहोत्राख्येत कृतेन कर्मणा परमेश्वर : मीयताम् । इत्यग्निहोत्रमयोगः |