पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | इत्यप उपस्पृश्य स्थाल्याः स्रुबेणाऽऽदाय प्रदीप्तां समिधं मूळतो. दूधगुलमात्रेऽभिजु- हुयात्- अग्नये संवेशपतये स्वाहा । आहिताग्निः-- अग्नये संवेशपतय इदं न मम । एक:- पुनः स्रुबेणाऽऽदाय पूर्वाहुत्यपेक्षया भूयसी पूर्वाहृतेः प्रागुदगुत्तरतो वा प्रजापतये | इति मनसा ध्यायन् स्वाहा । इत्युच्चार्योत्तरामाहुर्ति जुहुयात् । आहिताग्निः – प्रजानतय इदं न मम । इति त्यक्त्वा पश्चाद्द्बार्हपत्यस्य तिष्टन् अभयं वोऽभयं मेऽस्तु है इत्यग्नीनुपतिष्ठेत | एकः – उदङ्मुखो बिहाराद्वहिः स्रुक्स्थहविरेकदेशमादाय - आयुषे त्वा प्राश्नामि । इति प्रथमं भक्षयित्वाऽऽचम्य शेषमादाय अन्नाद्याय त्वा मानामि । इत्युत्तरं भक्षयित्वाऽऽचम्य विहारं प्रविश्य वेद्यंसस्यान्तः प्राङ्मुखः स्रुचाऽऽत्माभिमुखं त्रिरपो निनयेत्— सर्पदेवजनेभ्यः स्वाहा । मन्त्रोऽपि त्रिरावर्तनीयः । आहिताग्निः – सर्पदेवजनेभ्य इदं न मम । एकः—अभ्यात्मनिनयनानन्तरं स्रुचं प्रक्षाल्याद्भिः पूरयित्वा प्राच्यां दिशि ऋतुभ्यः स्वाहा । इति निनयेत् । आहिताग्निः- - ऋतुभ्य इदं न मम । एकः—पुनः स्रुचमद्भिः पूरयित्वा प्राच्यामेव दिग्भ्यः स्वाहा । ३५ आहिताग्निः-- दिग्भ्य इदं न मम । एकः पुनः स्रुचमद्भिः पुरयित्वोदीच्यां दिशि