पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२८ अग्निहोत्रचन्द्रिका वृत्तिः—प्रतपनमाहवनीयेऽन्तर्वेदिशब्दसमन्वयात् ! प्रताप्य स्रुचमन्तर्वेदिदेशे निदध्या- दिव्युक्तम् || ६० ।। परिकर्मिणे वा प्रयच्छेत् ॥ ६१ ॥ - दे० भाष्यम् – परिकर्मिणे योऽत्र परिकर्मी भवति तस्मै वैतां स्रुचं प्रताप्य प्रय- च्छेति विकल्पार्थः ॥ ६१ ॥ वृत्तिः– परिचारकः परिकमयुच्यते ॥ ६१ ॥ अग्रेणाऽऽहवनीयं परीत्य समिध आध्यात्तिस्रस्तिस्र उदङ्मुखस्ति- छन् ॥ ६२ ॥ दे० भाष्यम् – अप्रेणाऽऽहवनीयं पूर्वेणाऽऽहवनीयमग्निं परीय गत्वा समिध आदध्यादग्निषु प्रक्षिपेत् । अपरिमिताः प्राप्तास्तिस्रस्तित्र एककस्मिन्नग्मा बुदङ्मुखस्तिष्ठन्नू- र्ध्वमासीनः ॥ ६२ ॥ वृत्तिः– पूर्वेणाऽऽहवनीयं विहारस्य दक्षिणदेशं गत्वा तस्य तस्याग्नेर्दक्षिणत उदङ्मुखस्तिष्ठंस्तिस्र।स्तस्रः समिध आदध्यात् । पुनः प्रत्येत्य पर्युक्षणादि कुर्यात् ||६२|| प्रथमां समन्त्राम् || ६३ ॥ . दे० भाष्यम् – प्रथमां समन्त्रामुत्तरे तूष्णीम् ॥ ६३ ॥ वृत्तिः—सकृन्मन्त्रेणेति परिभाषा प्रधानकर्मसु न प्रवर्तत इति कृत्वा प्रथम सम- न्त्राभियुक्तवानाचार्यः ॥ ६३ ॥ आहवनीये दीदिहीति गार्हपत्ये दीदायेति दक्षिणे दीदिदायेति ॥ ६४ ॥ दे० भाष्यम् – आहवनीये दीदिही त्येतेन मन्त्रेणाऽऽहवनीयग्रहणं वेदाधिकारादग्रहण वेदिमिति स्यात् । समिधमित्युक्तेऽपरिमिताः प्राप्ताः । तिस्रस्तिस्त्र इत्युच्यमाने प्राङ्मुखत्वे प्राप्त उदङ्मुखस्तिष्ठन्नितिवचनात्प्राङ्क्षिनयनेष्वासीनो भवति । तिसृणां सहाभ्याध्याने प्राप्ते प्रथम्त्येकैकस्या आधानम् । अथ प्रथमाया एव मन्त्रेण दक्षिणेन दक्षिणाग्निं गत्वा गार्ह- पंत्येऽम्यादध्यात् । उदङ्मुखवचनाद्वेद्यत्तरेण गार्हपत्यं गत्योदङ्मुखस्य होमो न दृश्यते । अग्निहोत्रहोमप्रवत्स्यद्यजमानप्रायश्चित्तादिषु प्राङ्मुख एव दक्षिणे दक्षिणाग्नौ दीदिदाये - त्यनेन मन्त्रेणाऽऽदध्यात् । होमक्रमेणैतत् ॥ ६४ ॥ वृत्तिः— सर्वे स्वाहाकारान्ताः कर्तव्याः ॥ ६४ ॥