अग्निहोत्रचन्द्रिका | उक्तं पर्युक्षणं ताभ्यां परिसमूहने पूर्वे तु पर्युक्षणात् ॥ ६५ ॥ दे० भाष्यम् - उक्तं पर्युक्षणं तदिहापि पुनः कर्तव्यमित्यर्थः । ताभ्यां पर्युक्षणाभ्यां यथाऽऽदौ तथाऽन्त उभाभ्यां पञ्चमी द्विवचनम् । उभाभ्यां परिसमूहने भवतः परितः समन्तत ऊहनं परिसमूहनं भवति । पर्युक्षणादनन्तरं प्राप्ते पूर्वे तुशब्दः प्राप्तव्यावृत्त्यर्थः । पर्युक्षणादेव पूर्वे परिस्तरणप्रतिषेधः कृतो भवति । प्राप्तं तु लिङ्गदर्शनात् । कुशेषूपसाद्येति न च कुशाश्चोदिताः । एवमचोद्येऽपि प्राप्नुवन्ति । शास्त्रान्तरे दर्शनात्प्राक्पयुक्षणात्प- रिस्तरणानां स्थानम् । अन्वाधाय परिसमुह्य परिस्तीर्येति तेषां प्राप्तानां प्रतिषेधः क्रियते क्षणात्पूर्वे तु भवत इति ॥ ६५ ॥ २९ वृत्ति: यदुक्तं पर्युक्षणं तदिहापि कर्तव्यम् । पूर्वोक्तमिदं च द्वे पर्युक्षणे ताभ्य परिसमूहने व्याख्याते इति धर्मातिदेश एकोऽर्थः । परिसमूहने इति योगविभागात्स्वरूपसि• द्विश्च भवति । मन्त्रस्तु जपित्वेति पृथक्करणान्न भवति । लिङ्गाभावाच्च । ये द्वे परिस- महने पर्युक्षणकर्मके विहिते तयोरनेन क्रमो विधीयते पर्युक्षणाभ्यां पूर्वे परिसमूहने भवत इति ।। ६५ ।। एवं प्रातः ॥ ६६ ॥ दे० भाष्यम् – यथा सायं विहरणादूर्ध्वमुक्तं विधानमेवं तत्सर्वं प्रातरपि भवति ॥ ६६ ।। वृत्तिः-सायंकालेऽग्निहोत्र विधिरुक्त एवं प्रातःकालेऽपि होमः कर्तव्य इत्यर्थः ॥६६॥ तत्र विशेषमाह - उपोदयं व्युषित उदिते वा ॥ ६७ ॥ दे० भाष्यम् उपोदयं प्रादुष्कालोऽवशिष्ट कालो नियम्यते । उपोदयमुप समीप – उदयसमीपे होतव्यम् । व्युषित उपोदय उषस्युदितायां होतव्यम् । उदितेऽनुदिते बाऽऽदित्ये होतब्यम् । इत्येते त्रयः कालविकल्पाः । होमकालस्याननुपूर्ववचनात् । उपोदयमित्येतस्य पूर्वपक्षत्वमत्रोदितेत्यस्य प्रधानत्वम् । यथा - 'उद्यन्नु खलु वा आदित्य आहवनीयेन रश्मीन्संदधाति ' इति श्रुतिः । तस्मिन्नुदिते वा होतव्यमिति त्रयः कालाः ॥ ६७ ॥ वृत्तिः- उपोदयमादित्योदयसमीप इत्यर्थ: । व्युषित उपस्युदित इत्यर्थः । उदित आदित्यमण्डले कृत्स्न उदित इत्यर्थः । एते त्रयः प्रातर्हेमप्रधानकालाः । तत्र यद्यपोदय- मुदित इत्युच्यते, उदित आदित्ये सत्युदयसमीप इति द्वाभ्यां पदाभ्यामेक एव कालो
पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/६१
दिखावट