पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२२ अग्निहोत्र चन्द्रिका | - दे० भाष्यम् – भूयिष्ठं बहुतममुत्तराद्धतिवदुत्तरावमं हविः शिष्ट्वा शेषं कृत्वा त्रिरन्त्राहुतिमनुप्रकम्प्य चालगित्वाऽमृज्या वाक्याणिना लेप परिमृज्य कुशमूलेषु निमार्ष्टि निःशेषेण लेप निमाटि पशुभ्यस्त्वेत्येतेन मन्त्रेण ॥ ३८ ॥ - वृत्तिः— उत्तराहुतेर्भूयिष्ठं भूयोद्रव्यं पूर्वाहुतेर्भूयिष्ठं यथा भवति तथा भक्षार्थ स्रुचि शेषयेत् । पूर्वाहुत्यर्थं प्रक्षिप्ताद्रव्यादुत्तराहुत्यर्थं भूयो भवति । तस्मादपि भूयो भक्षार्थं भवति । तत्पूर्वाहुत्यपेक्षया भूयिष्ठमित्युच्यते । भूयिष्ठं द्रव्यं स्रुचि शेषयित्वा स्रुचमेवाऽऽहुतिदेशस्थां प्रकम्पयेत् । ततः स्रुम्गतलेपं पाणिनाऽधो मुखेना मृज्य पाणि- गतं ऌपं कुशमूलेषु निमार्ष्टि निमृजेत्पशुभ्यस्त्वेति ॥ ३८ ॥ I तेषां दक्षिणत उत्ताना अगुली: करोति प्राचीनावीती तूष्णीं स्वध पितृभ्य इति वाऽपोऽवनिनीय वृष्टिरसि वृश्च मे पाप्मानमप्सु श्रद्धेत्यप उप- स्पृश्य ॥ ३९ ॥ - दे० भाष्यम् – तेषां कुशमूलानां दक्षिणस्यां दिश्युत्ताना अङ्गुली: करोति प्राची - नावती भूत्वा तूष्णीं स्वधा पितृभ्य इत्यनेन मन्त्रेण । अङ्गुल ष्ववनिनीयावसिश्चेत् । पुनर्थज्ञोपवीतं कृत्वा वृष्टिरसीत्यनेन मन्त्रेणाप उपस्पृश्य | तूष्णीं ग्रहणं मन्त्रविवक्षार्थम् । अक्रियमाणे वाशब्दः क्रियाविकल्पार्थः स्यान्निनयनमपि होमवत्तूष्णीं निनयने प्रजापति ध्यायेत्पैतृकत्वात्कर्मणोऽप्सु श्रद्धेत्युपस्पृश्येति साकाङ्क्षत्वाद्वाक्यस्योदङ् भक्षयेदिति । स हि प्राप्तानुवादो नित्यमप उपस्पर्श ममन्त्रवदधिकृतात्तत्प्रतिपत्त्यर्थं परिभाषाव्यवायादन्यथा. स्पृष्ट्ये- दकत्रचनमनर्थकमभावात् ॥ ३९ ॥ वृत्तिः—तैषां कुशमूलानां दक्षिणत उत्ताना अङ्गुलीनिंदध्यात् । प्राचीनावीती भूत्वा ‘ स्वधा पितृभ्यः ’ इति मन्त्रेण तूष्णीं वा । एतावदेव सूत्रम् । अपश्च कुशमू- ळानां दक्षिणतो निनयेदवाचीनेन पाणिना | एतावत्स्स्रुग्धस्त एत्र करोति । एवं वा तेषां दक्षिणत उत्ताना अङ्गुली: करोति प्राचीनावीति तूष्णीं स्वधा पितृभ्य इति वाऽपोऽवनिनीय । इदमपि सूत्रमेतावदेव । निधाय स्रुचमप उपस्पृशेत् ॥ ३९ ॥ आहिताग्निरनुमन्त्रयेत ॥ ४० ॥ दे० भाष्यम् – आहिता निरनुमन्त्रयेत समिधम् ॥ ४० ॥ वृत्तिः—अधिकारोऽयम् ॥ ४० ॥ आधानमुक्त्वा तेन ऋषिणा तेन ब्रह्मणा तया देवतयाऽङ्गिरस्वध्रुवा सीदेति समिधम् ।। ४१ ॥ दे० भाष्यम् – आधानमुक्वा समिदाधानमन्त्रमुक्त्वा सायं प्रातश्च यः प्रयुक्तस्तमाह