पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २३ । स्वाहाकारान्तमुक्त्वा तेन ऋविणेत्येतेन च । उभाभ्यां समिधमनुमन्त्रयेत । आहिताग्निग्रहणं कर्तुरधिकाराद्देशान्तर उक्तऩमिदाधानकाले तु भवति । मन्त्रे स्त्राहाकारो होम र्थमनुमन्त्रणे न प्रयोक्तव्यस्तथ दृष्टत्वादुपस्थाने । एतैश्चैव वा स्वाहाकारैरिति नित्यमन्त्रस्यायमुपदेशो न तु नैमित्तिकस्य । मित्रो जनान्यातयति ब्रुवाण इति समिदाधानमिति । तत्रापि यज- मानो नित्येनैत्रानुमन्त्रयते । इष्टकोपघानलिङ्गत्वात् । श्रूयते तावद्यद मेर्यजुष्मत्य इष्टका इति ।। ४१ ॥ वृत्तिः– समिदाधानमन्त्रेण तेन ऋषिणेत्यनेन मन्त्रेण च समिधमाधीयमानामनुम - न्त्रयते ॥ ४१ ॥ ता अस्य सूद दोहस इति पूर्वामाहुतिम् ॥ ४२ ॥ दे० भाष्यम् ——ता अस्य सूद दोहस इत्यनयर्चा पूर्वामाहुतिमनुमन्त्रयते । पुर्त्रामाहु- तिमित्यनुध्यमान उभयत्र प्राप्नोति ॥ ४२ ॥ वृत्तिः—एतयर्चा पूर्णामाहुतिमनुमन्त्रयते ॥ ४२ ॥ उपोत्थायोत्तरां काङ्क्षेतेक्षमाणो भूर्भुवः स्वः सुप्रजाः प्रजाभिः स्यां सुवीरो वीरैः सुपोषः षोषैः ।। ४३ ॥ । दे० भाष्यम् -- उपोत्यायोत्तर / मुत्तरामाहुर्ति हुवा तामुपलक्ष्योन्याय स्थितिष्ठते सर्बानग्नीनविशेषवचनाद्व्याहृतयश्च सर्वार्था आग्नेय्योऽपि वास्यानुसमर्था यथावत्संप्रयोगात्तु एकार्था अपि बर्था भवन्ति । विभक्तास्तु नित्यास्तस्मात्सर्वाननीनुपतिष्ठते । कं पुनरस्य वैकल्पिकं विधिं वक्ष्यति । अयं पन्था अपि वित्तः । अस्य स्थाने भवति श्रुतिः । काङ्क्षेतेच्छेत मन्त्रलिङ्गोपदेशनार्थं भूर्भुवः स्त्र: सुप्रजाः प्रजाभि: स्यां सुत्रीरो वीरैः सुपोषः पोषैरित्येताः काङ्क्षत | ईक्षमाणोऽसीनीक्षमाण उपतिष्ठेत भूर्भुवः रूरित्येतेन मन्त्रेणाधिकारादनुतन्त्रणे प्राप्त उपोत्यायेति ब्रूयात् । उपोत्यायोत्तररामिति वचनादुत्तरा मुत्थानस्योक्तलक्षणं भवति । उत्तरामुपलक्ष्योत्थाय मन्त्र उच्यमन उपस्थानसंज्ञो भवति । ईक्षमाणवचनात् ॥ ४३ ॥ - वृत्तिः— इतिकाराध्याहारेण सूत्रच्छेदः । उत्तराहुतेतूयमानाया देशतः कालतश्च स्थित्वा कटाक्षेणेक्षमाणस्तामेवाऽऽहुतिमनुमन्त्रयते । काङ्क्षत शब्द: कटाक्षवचन: के चिदुत्तरामा हुतिमीक्षमाणोऽनुमन्त्रयते तन्मन्त्राभिहितान्कामान्काङ्क्षत चेति वर्ण- यन्ति ॥ ४३ ॥ आग्नेयीभिश्च ॥ ४४ ॥ ६० भाष्यम् – आग्नेयीनामुपदेशाच्च । अग्निर्देवता यासामुचां ता आग्नेय्यो भवन्ति ।