पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २१ वृत्तिः– समिधमाधायेत्युच्यते समिदाधानधर्मस्य जानुनिपातनस्यानुवृत्त्यर्थम् । समि- घमाधायेत्यनेनैव समिद्ग्रहणेन पूर्वसूत्र अध्यादित्येवोक्तेऽपि समिध एवाऽऽधाने सिद्धे ऋत्पूर्वसूत्रे समिद्ग्रहणं करोति तज्ज्ञापयति यत्र यत्र समिधमादध्यात्तत्र तत्र जान्वाच्याऽऽ- दश्यादिति । विद्युदसीत्यप उपस्पृश्य मदीप्तां समिधं मूलतो द्द्व्यङ्गुलमात्रेऽभिजुहुयात् भूर्भुवः स्वरो३म् ' इति मन्त्रेण ॥ ३४ ॥ पूर्वामाहुति हुत्वा कुशेषु सादयित्वा गाईपत्यमवेक्षेत पशून्मे यच्छेति ॥ ३५ ॥ दे० भाष्यम् – तां पूर्वाहुर्ति हुत्वैतदपि पुनरुच्यते, पूर्ववद्यजमानस्य स्थानोपदे- शायँ हुव्वेति । कुशेषूपसाद्य गार्हपत्यभवेक्षेत पशून्मे यच्छेत्यनेन मन्त्रेण प्रत्यग्व्यावृत्यावे- क्षते ॥ ३५ ॥ वृत्तिः—द्धुत्वेतिवचनं निपातितजानुरेत्रोत्तरमपि कुर्यादित्येवमर्थम् । पूर्वामिति वचनं पूर्बाहुत्युत्तरकालीनं स्रुचं सादयित्वैव कुर्यादुत्तराहुत्युत्तरकालीनं सुग्घस्त एव कुर्याद चमर्थम् ॥ ३५ ॥ अथोत्तरां तूष्णीं भूयसीमसंसृष्टां प्रागुदगुत्तरतो वा ॥ ३६॥ दे० १० भाष्यम् – अथ वीक्षणादनन्तरमुत्तरामाहुतिं जुहुयात् । अधिकृते मन्त्रे प्राप्ते तूष्णीममन्त्रं भूयसीमुत्तरां पूर्वस्या उत्तरत एवं जुहुयादिति ॥ ३६ ॥ - वृत्तिः – अथेत्यानन्तर्थवचनेन पूर्वाहुत्योत्तराहुतेः संबन्धः क्रियते | तेन जान्वाच्ये- त्यस्यानुवृत्तिर्लभ्यते । प्राधान्यं चोत्तराहुतेः । अतः पूर्वाहुतौ हुतायां द्रव्यदोषे सत्युत्तरा- द्धुत्प्रर्थं द्रव्यमुत्पादयितव्यमेव । भूयसी पूर्वाहुतेर्भूयोद्रव्यम् । असंसृष्टां पूर्त्रयाऽऽहुत्या । प्रागुदक्पूर्वाहुतैरुत्तरतो वा तस्या एत्र || ३६ ।। प्रजापतिं मनसा ध्यायात्तूष्णींहोमेषु सर्वत्र ॥ ३७ ॥ दे० भाष्यम् – प्रजापतिदेवतां मनसा ध्यायाज्जुहुयाच्चतुर्थ्या विभक्त्या स्वाहा - कारेणा च प्रजापतये स्वाहेति मनसा जुहुयादिति वा तूष्णींहोमेषु प्रजापति व्याया सर्वत्र । अस्मादन्यत्रापि तूष्णींहो मेषु यत्र यत्र तूष्णीं चतुर्थं तूष्णीं सर्वहुतं जुहुयुः । होमग्रहणात्समिदाघाने न भवति तूष्णीं समिधमाधायेति ॥ ३७ ॥ । वृत्तिः तः - यत्र तु तूष्णींशब्द विशिष्टो होमश्वोद्यते तत्र प्रजापतिदेवतां ध्यायेद्देवता- साध्यत्वाद्धोमस्य । ध्यानत्वादेव मानसत्वे सिद्धे मनोग्रहणं शब्दध्यानार्थम् । तेन चतु- र्थ्यन्तं प्रजापतिशब्दं ध्यात्वा तदनन्तरं स्वाहेत्युपांशूक्त्वा जुहुयात् । होमेष्विति बहुवच- नादेव प्रकरणादुत्कर्षे सिद्धे सर्वत्र ग्रहणं गार्हेष्वपि प्रापणार्थम् ॥ ३७ ॥ भूयिष्ठं स्रुचि शिष्ट्वा त्रिरनुमकम्प्यावमृज्य कुशमूलेषु निमाष्टिं पशुभ्य- स्वेति ॥ ३८ ॥