पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२९२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२७२ अग्निहोत्रचन्द्रिका | समापनस्य श्रुतत्वात्तदेव यादृक्कदृक् च होतव्यमित्यच्छन्द्रकाण्डे दर्शनाचा हक्की दृग्यथाकथंचिदङ्गहीनमपि प्रधानमनुष्ठेयमिति । वाक्यार्थः—विध्यपराधेऽपि समाप्तेर्दर्शनात् । चकारोऽव्यर्थकः । इदानीमग्निहोत्रोद्धरणमन्त्रः सर्वार्थोऽप्यस्ति न वेति विचार्यते--- न तूत्पन्ने यस्य चोदनाऽप्राप्तकालत्वात् । ( जै० त० ९ । ४ । ३१ । ) दीपिका — दर्शोपक्रमेऽग्न्युद्धरणे क्रियमाणे किमग्निहोत्राङ्गभूत उद्धरणमत्रो वाचा त्वा होत्रेत्यादिः प्रयोक्तव्यो नेति संशयः । तत्र— दर्शार्थेऽप्युद्धृते वावग्निहोत्रं प्रवर्तते । साधनत्वमयुक्तश्च धर्मो नाङ्गमपेक्षते ॥ तेनाग्निहोत्रानङ्गभूतेऽप्युद्धरणे तदुपकारकत्वमात्रेण यागार्थयोर्दधिपयसोः प्रणीताधर्मा इव कर्तव्य एव मन्त्रः | कालमनादृत्य कालस्य गुणत्वेनासंभवेऽपि मन्त्रस्य लोपोऽन्याय्यः | अथवोद्धरणमप्येतदग्निहोत्रस्याप्यङ्गमकालेऽपि क्रियमाणमन्यथाऽग्निहोत्रस्य प्रणयनलोपा. द्वैगुण्यं स्यादिति प्राप्तेऽभिधीयते - काले खल्वनुपादेये प्राप्ते कर्म विधीयते । साङ्गं तस्मात्तु कालात्माङ्नाधिकारोऽस्ति कर्मणि ॥ अनधिकारिणा च क्रियमाणं निष्फलं स्यात्तस्मान्नाप्राप्ते कालेऽग्निहोत्राङ्गमुद्धरणं तन्म वा कर्तव्यः । पुनराधेयमोदनवत् । द्रव्योत्पत्तेर्वोभयोः स्यात् । (जै० त० ६ | ४ | २६-२७ । दीपिका – “यस्योभावनी अनुगताबभिनिम्लो चेदम्पुदियाद्वा पुनराधेयं तस्य प्रायश्चि त्तिः " इति किमुभयानुगमो निमित्तमुतान्यतरानुगमोऽपीति । समस्तपञ्चशरावन्यायेनान्य तरानुगममात्रं निमित्तमिति प्राप्त उच्यते- सत्यं निमित्तवेला यामुभावित्यविवक्षितम् । नैमित्तिकं तु नैवैतदेकस्योत्पादनक्षमम् ॥ पुनराधेयं हि वाक्यान्तरेण यादृशमवगतं त दृशमेव गार्हपत्याहवनीययोरुदयामिनिम्लेच नवेलायामनुगतयोरुत्पादकत्वेन चोद्यते, तञ्च सहितयोरेव तयोरुत्पादकमवगतं नान्यतरस्य अतस्तादृशमेश्चत्र विधीयमानमन्यतरानुगमे कार्यं कर्तुं न क्षममियुभयानुगमे स्यात् ।