पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८७

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २६७ ' निर्हते दोषे पुनः कृत्स्नं कर्म ( आप० श्रौतसू० ९ | १ | ६ । ) ‘ । । - हात्तः— एवं प्रायश्चित्तेन निर्हते दोषे ततः कर्मशेषः कार्य इत्यर्थः । यदष्यकृतमय- यथाकृतं वा (सत्) कृते प्रायश्चित्तेऽङ्गं प्रधानं वा तदपि यथा क्रियेतेत्युक्तं कृत्स्नमिति । तत्राङ्गमपवृक्ते कर्मणि न क्रियते प्रधानानुपकरात् | द्रव्यसंस्कारस्तु परतो द्रव्योपयोग न क्रियते तदर्थत्वात् । प्रधानमण्यपक्तकलं न क्रियतेऽकाले कृतस्याकृतत्वात् । गौणकाले तु क्रियत एव मुख्याभावे गौणस्यापि ग्राह्यत्वात् । तेनःर्व कपरपर्वणः क्रियैव दर्शपूर्ण मासयोस्तच्च परस्ताद्दर्शयिष्यामः | केचित्तु व्याचक्षते - निर्हते दोपे पुनः कर्म कृत्स्नं भवति सकलं भत्रति फलदानसमर्थं भवतीति । ननु निर्हनदपमपि कर्म दोषागम विकल शक्तिकं सत्कथं कार्यााय कल्पते न हि शवेध पादेन खज: 'संनुत्खातशल्योऽपि . पन्थानं प्रतिपद्यते । तेन प्रयुक्तस्य कर्मगोऽपार्थकत्व नः प्रयोगेग भववितव्यम् । - अत अ ह— 'तस्य नावचनात्पुनः प्रयोगः । ( आप ० ० सू० ९।१।७। ) वृत्तिः— तस्य सकृःप्रयुक्तस्य कर्मणो नर्ते बचनात्पुनः प्रयोगो भवति । भवत्येव तु वचनात् । यथा—“ अन्यां दुग्ध्वा पुनर्हेतव्यमथान्यामिष्टिमनुलवणां तन्वीत " इत्यादौ । को ह्यदृष्टार्थस्य कर्मणः कार्याकार्यते शक्यशक्ती वा जानीयात् | नो खल्वन्धो रूपविशेषान्पश्यति तस्माद्यस्य शास्त्रमेव पुनः प्रयोग शास्ति कामं तत्र प्रयोक्ष्यते प्रत्येष्यते च तस्य पङ्गोरिव कार्यशक्तिः । यत्र तु न शास्त्रमस्ति कुतस्तत्र पुनः प्रयोगः । प्रत्येष्यते तु तत्र प्रयुक्तस्यैव कर्मणश्चिकित्सितपटलस्येत्र चक्षुत्रः कार्यशक्तिरित्यलं प्रसङ्गेन। इति वृत्तिः । एतत्सर्वं मनसि नित्राय लेकरांबभूत्र मण्डन चार्थ:-- प्रायश्चित्ते कृते पश्चातीतमपि कर्म वै । कार्यमित्येक आचार्या नेत्यन्ये तु विपश्चितः || साक्षाच्छ्रत्या विहितं प्रायश्चित्तं तु प्रायश्चित्तप्रकरणे दर्शितमस्माभिरैतरेयब्राह्मणमुदाहृ त्येति न पुनस्तद्विषये प्रयत्यते । इदानीं जैमिनीयतन्त्रस्थः प्रायश्चित्त विचार: प्रस्तृयते - प्रायश्चित्तेषु चैकार्थ्याभिष्प नेनाभिसंयोगस्तस्मात्सर्वस्य निर्धातः । (जैमि- नीयतन्त्रे १२ । ३ । १६ ) दीपिका – यानि प्रायश्चित्तानि कर्मवैगुप्ये • निमित्त विधीयन्ते, यथा- “ यद्यक्त -