पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८८

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६८ अग्निहोत्रचन्द्रिका | यज्ञ आर्तिमियाद्भूः स्वाहेति गार्हपत्ये जुहुयात्, योऽमावास्यां पौर्णमासी वाऽतिपातयेदग्नये पथिकृते पुरोडाशमष्टाकपालं निर्वपेद्योऽमावास्यां पौर्णमासीं वाऽनिपातयेद्वैश्वानरं द्वादश- कपालं निर्वपेत् ” इत्यादीनि वैगुण्यसमाधित्सायां विधानात्समाधानार्थानि । यान्येक स्मिन्वैगुण्ये विधीयन्ते पथिकद्वैश्वानरादीनि तेषां विकल्पसमुच्चयचिन्तायामदृष्टार्थत्वात्समु च्चयप्राप्तावेकैकेन वाक्येन वैगुण्यसमाधानाय निरपेक्षविधानाद्विकल्पः । सूत्रार्थस्त्वेवम् – प्रायश्चित्तेषु यस्मान्निष्पन्नेन वैगुण्यरूपनिमित्तेन योगस्तस्मादैकार्थ्यं, ततश्चैकेन सर्वस्य वैगुणस्य निर्धात इति विकल्प इति । अत्राऽऽपस्तम्त्राचार्यः समुच्चयं सूत्रयांबभूवेति प्रादुर्शयं प्रागेव | इदानीं तु शिष्टसमाचारो मीसांसकमतेनोभयोः प्रायश्चि- तयोर्विकल्प एव । वस्तुतस्तु प्रयोगशास्त्रानुसारं समुच्चय एवैष्टव्यो याज्ञिकप्रवरैः । अत्र विद्यारण्याः- - चैश्वानरे पाथिकृते साहित्य वा विकल्पनम् । साहित्यं स्याददृष्टाय विकल्प: स्यात्समाधये ॥ समुच्चयस्त्वदोषार्थेषु । ( जै० त० १२ । ३ । १७ ) दीपिका-या पुनर्न दोषनिर्घातार्थानि निमित्ते कर्माङ्गानि (णि) भिन्ने जुहोती- त्यादीनि तेषां प्रयाजा दिवदपर्यायविधानात्समुच्चय इति प्रत्युदाहरणमात्रमेतत् । अत्र विद्यारण्या:- भिन्नस्कन्नादिहोमादेर्विकल्पो वा समुच्चयः । विकल्पः पूर्ववन्यैव मदोषे विहितत्वतः ॥ एतदेव सूत्रं सुबोधिन्यामन्यथापाठं स्वीकृत्य व्याख्यातम् । तद्यथा- समुच्चयस्त्वदोषोऽर्थेषु । ( १२ । ३ । १७ ) सुबोधिनी – यत्र यादृशानीमत्ते ऋतुवैगुण्यं पुरुषस्य प्रत्यवायो वा न श्रूयते किंतु कर्तव्यतामात्रं श्रूयते तादृशकर्मणां प्रयाजा दिवदङ्गत्वमात्रावगमात्समुच्चय इति पूर्वाधिकर णापवादमात्रम् । अस्योदाहरणं शास्त्रदीपिकायां भिन्ने जुहोति, स्कन्ने जुहोतीति । भाष्ये तु यस्याहुतेऽग्निहोत्रमहुतं सूर्योऽभ्युदेति, अनुद्धृतेऽभ्युदियाद्वेति, उभयत्रापि मेदनस्कन्दना - दिरूपनिमित्तभेदाद्द्वयोः समुच्चयस्य सिद्धत्वेनानेन सूत्रेणानुवादमात्रं कृतमिति बोध्यम् । प्रासङ्गिके प्रायश्चित्तं न विद्यते परार्थत्वात्तदर्थे हि विधीयते । ( जैमिनीयतन्त्रे ९। ४ । २८) दीपिका— अग्निहोत्रे श्रृयते - -