पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ततो भक्षयेत् । तत्र मन्त्र- भद्रान्नः श्रेयः समनैष्ट देवास्त्वया वशेन समशीमहि त्वा । स नो मयोभूः पितवाविशेह शं नो भव द्विपदे शं चतुष्पदे || तत आचम्य तत्रैवाऽऽसीनो नाभिमालभेत । तत्र मन्त्रः- - २६३ अमोअसे प्राण तदृतं ब्रवीम्यमाऽसि सर्वानसि प्रविष्टः । स मे जरां रोगमपनुद्य शरीरादमा म एधि मा मृथाम इन्द्र || इति नाभिमुपस्पृश्याप उपस्पृशेत् । ततः पत्नी हविःशेषं प्राश्नाति तूष्णीम् । ततः - भूर्भुवः स्वः स्वाहा । प्रजापतय इदं न मम । इति प्रायश्चित्ताहुतिं स्रुवेणाऽऽज्यद्रव्यकां हुत्वा पूर्णपात्रमभिमृशन्तीं वाचयेत् । तत्र मन्त्रौ - पूर्णमास पूर्ण मे भूया: सुपूर्णमास पूर्ण मे भूयाः सदसि सन्मे भूयाः सर्वमसि सर्वे मे भूयाः । अक्षितिरसि मा मे क्षेष्ठाः | पन्यञ्जत्रिमुत्तानमात्मनश्च सव्यं पाणिमुत्तानं निधाय पूर्णपात्रं निनयंस्तां वाचयेत् - माऽहं प्र॒जां परासिचं या नः सयावरी स्थन । समुद्रे वो निनयानि स्वं पाथो अपीथ || उपतिष्ठेत — ॐ च मे स्वरश्च मे यज्ञोप च ते नमश्र | यत्ते न्यूनं तस्मै त उप यत्तेऽतिरिक्तं तस्मै ते नमः ॥ इत्युपस्थायाऽऽचम्यानेनाऽऽग्रयणानुकल्पस्थालीपाकेन कर्मगा भगवानग्झिरूपी परमे- श्वरः प्रीयताम् । आचामेत् । मन्त्रभाष्यम् | सर्ऋतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा । भाष्यम् – हे, आहुते त्वमृतुभिर्वसन्तादिभिः सजूः समानप्रीतिरसि । वसन्तादीनां प्रीतिस्तादृशी तबेत्यर्थः । एवमुत्तरत्रापि सजूःशब्दो योज्यः | विविधं जगद्दधति पोषय- न्तीति ब्रह्मादयो विधास्तैर्विधाभिः । एवमग्रे योज्यम् । अन्येषां मन्त्राणां भाष्यमाग्रयणम- न्त्रभाष्ये कृतमेव । अवशिष्टानां संस्कारमीमांसायां प्राकाशि । इति । इति मन्त्रभाष्यम् ।