पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२६२ अग्निहोत्रचन्द्रिका | चतुरश्चतुरो मुष्टीन्प्रतिदैवतं निरुप्य तथैव मोक्ष्यावहत्य त्रि: • शुक्लीकृत्य त्रिः मक्षाल्य पात्रे सुशृतं चरुं पचेत् । ततः— सवितुष्टा प्रसव उत्पुनाम्यच्छिद्रेण पवित्रेण वसोः सूर्यस्य रश्मिभिः | इति सकृन्मन्त्रेण द्विस्तूष्णीमाज्यमुत्पूय (अङ्गुष्ठोपकनिष्ठिकाभ्यामुत्तानाभ्यां पाणिभ्याम- प्रच्छिन्ना प्रावनन्तर्गम मादेशमात्रौ कुशौ नानाऽन्तयोर्गृहीत्वा ) शतं हविः सुवगृहीतेनाऽऽ. ज्येनाभिधार्योदगुङ्कास्य बर्हिष्यासाद्य स्रुवगृहीतेनाऽऽज्येने ममभिधार्य अयं त इध्म आत्मा जातवेदस्तेनेभ्यस्त्र वर्धस्व चेद्ध वर्धय चास्मान्मजया पशुभिर्ब्रह्मवर्चसेनान्नाद्येन समेधय स्वाहा । जातवेदसेऽग्रय इदं न मम । इतीघ्ममग्नाबाधाय ततः स्रुवेणाऽऽज्यमादायाऽऽघाराबाघार्य स्रुषेणाऽऽज्यमादाय - अग्नये स्वाहा अग्नय इदं न मम । सोमाय स्वाहा सोमायेदं न मम । इत्याज्यभागौ हुत्वा पात्रान्तरे चरुमुत्य पृथक्कृत्य ( नात्राभिमर्श ) अवदानधर्में- णावदाय सर्ऋतुभिः सजूर्विधाभिः सजूरिन्द्राग्निभ्यां स्वाहा । इन्द्राग्निभ्यामिदं न मम । सर्ऋतुभिः सजूर्विधाभिः सजूर्विश्वेभ्यो देवेभ्यः स्वाहा । विश्वेभ्यो देवेभ्य इदं न मम । सर्ऋतुभिः सजूर्विधाभिः सजूर्यावापृथिवीभ्यां स्वाहा । द्यावापृथिवीभ्यामिदं न मम । यदस्य कर्मणोऽत्यरी रिचं यद्वा न्यूनमिहाकरम् । अग्निष्टत्स्विष्टकृद्विद्वान्त्सर्वे स्विष्टं सुहुतं करोतु मे । अग्नये स्विष्टकृते सुहुतहुते सर्वप्रायश्चित्ताहुतीनां कामानां समर्पयित्रे सर्वान्नः कामान्त्समर्धय स्वाहा । स्विष्टकृतेऽग्रय इदं न मम । इति स्विष्टकृतं ह॒त्वा चरोरेकदेशं गृहीत्वा सव्ये पाणौ कृत्वा दक्षिणेन पाणिनाऽभि मृशेत् । तत्र मन्त्रः- प्रजापतये त्वा ग्रहं गृह्णामि मह्यं श्रियै मह्यं यशसे मह्यमन्नाद्याय |