पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | शालाग्नौ वचनमपार्थकम् । कस्मादशालाग्नेर्भविष्यति । कर्मणः प्राप्तवान् । शालाग्निगृहा इत्युच्यते । एवं सिद्धे शालाग्निग्रहणं वाऽऽप्रयणं ज्ञापयति । पूर्वविधानं शालाग्नौ भवतीति । तेन त्रेतायां तत्सिद्धं भवति । एतेनैते सर्वे पक्षा अग्निहोत्रहोमादय आग्रयणस्थालीपा- कान्ता आहिताग्नेर्विकल्प्यन्ते । कस्मादेकार्थत्वात् । अनाहिताग्नेश्चाऽऽग्रयणस्थालीपाको गृह्यत एवं भवतीति सिद्धम् । ना० दृ० -- अविशेषादाहित ग्नेरपि सिध्यति श्रवणाकर्म,दिवत् । आहिताग्निग्रहणं किमर्थम् । अत्र ब्रूमः — आहिता नैराणान्तरस्य विहितवादेत प्रचणं न प्राप्नोति । तस्मादाहिताग्निग्रहणम् । अयं चाऽऽपकाले द्रष्टव्यः । इदं चास्य त्रेतायां भवति नौपा. सने । तत्तु साधयिष्यामः । शास्त्रान्तरे च दृदफ्ते 'आग्रयणदेवताभ्यः विष्टकृच्चतुर्थान्धः इति । तस्मात्रेतायामिति सिद्धम् । इह तु विधानं पाकयज्ञधर्मप्राप्यथम् । अनाहिताग्नेरपि शालानौ । 4 दृत्तिः—अनाहिताग्नेरण्याप्रयणं कार्यम् । तच्च शालाग्नौ भवति । शालाग्निनमिपा- सनः । तार्है शालाग्निग्रहणमपर्थकम् | सत्यम् | नियमार्थं तु तत् | अनाहिताग्नरेबों- पासन इति । तेनाऽऽहिनाग्नेस्त्रेतायामिति सिद्धम् । स्विष्टकृतं हुन्वा चरोरेक देशं गृहवा सव्ये पाणौ कृत्वा दक्षिणेन।भिमृशेत् ' प्रजापतये त्वा ' इति मन्त्रेण । ततः भद्रान्नः श्रेयः ' इति प्राश्य तत आचम्य तत्रैवाऽऽसीनो नाभिमालमेत अमोऽसि ' इाते । पत्नी हविः शेषं प्राश्नाति तृष्णीम् । होमशेषं समापयेत् । एतत्प्राशनमाग्रयाद्वयेऽपि भवति । सौकर्यार्थमिदमत्र लिखितम् । इदं चाऽऽग्रयणं यदा वर्षस्य तृप्तः स्यात्तदा भवति शरदीत्यर्थः । तथा च वचनम्- -' शरदि त्रीहिभिर्यजेत' इति । तत्र च पर्वणि भवति । यवाग्रयणंचन कार्यम् | श्याम कैस्तु प्रस्तरं कुर्यान्नाऽऽग्रयणं दृष्टत्वात् । अपि वाऽत्र समानतन्त्रं कुर्यात्सौम्यं चरुम् । अस्य च नामधेयेन होमः | आग्रयणस्थाली- पाक इत्यत्र च विशेषणसमास आग्रयणं चासौ स्थालीपाकश्चेति । तत्र स्थालीपाकग्रह - णस्येदं प्रयोजनम् । अनाहिताग्नेः स्थालीपाक एव कार्यः । अग्निहोत्री वै नानादयित्वे- त्ययं पक्षः कार्य इति । k आहितानेर| ग्रयणानुकल्पस्थालीपाकप्रयोगः | संस्कारमीमांसायां प्रदर्शितरीत्या पार्वणस्थालीपाकोक्तरीत्या गार्हपत्ये समित्त्रयं हस्ते गृही. त्वाऽस्मिन्गार्हपत्ये जातवेदसमग्निमिध्मेन प्रजापतिं प्रजापतिं चाऽऽघारदेवते आज्येनाग्नीषो- . मावाज्यभागावाज्येनात्र प्रधानम् इन्द्राग्नी विश्वान्देवान्द्यावापृथिवी च चरुद्रव्येण शेषेण स्विष्टकृतमग्निं प्रजापतिं प्रायश्चित्तदेवतामाज्येन सधो यक्ष्ये । ततः परिसमुझ परिस्तीर्य