पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२८०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २५९ श्रयमाणत्वात् । वीप्सायां च नित्याधिकारो गम्यते । यथा - 'वसन्ते वसन्ते ज्योतिष्टो- मेन यजेत ' इति नित्येष्वपि स्वर्गफलं केचन मन्यन्ते । पितृयज्ञः स्वकालत्वादनङ्गं स्यात् ॥ १९ ॥ तुल्यवत्प्रसंख्यानात् ||२०|| प्रतिषिद्धे च दर्शनात् ॥ २१ ॥ ( शास्त्र० अ० ४ पा० ४ अ० ८1) क्रत्वङ्गं स्यान्न वा पिण्डपितयज्ञः क्रतौं हि सः । अमावास्योक्तितो मैवं तत्कालोक्तेः पुमर्थता ॥ ११ ॥ अमावास्यायामपर।ह्णे पिण्डपितृयज्ञेन चरन्तीत्यनारभ्याधीतः पिण्ड पितृयज्ञः क्रत्वर्थ उत पुरुषार्थ इति संशये कर्भवचने नामावास्याशब्देन समभिव्याहारात्तदङ्गत्वम् । यद्यपि काल- स्यापि साधारणोऽयं शब्दरतथाऽपि फलकल्पनापरिहाराय कर्मवाचितैवाङ्गीक्रियते । तस्मात्क्रत्वर्थ एवायमाहिताग्नेः । अनाहिताग्नेरप्यनाहिताग्निना कार्य इति विहितः । तस्य ऋत्वभावाद्भवतु पुरुषार्थः । तथा च भगवता मनुना ' न दर्शेन विना श्राद्धनाहिताम्मेर्द्वज न्मनः ' इति वदता दर्शाङ्गत्वं प्रदर्शितम् | अनङ्गं हि तेन विना क्रियते तस्माद्दर्शाङ्गम् । नैवं साधारणत्वेऽपि सामानाधिकरण्यतः । कालवाचित्वमेव स्यात्तत्सापेक्षच कर्मणि ॥ यद्यपि तावत्साधारणोऽमावास्याशब्दस्तथाऽप्यपराह्नसामानाधिकरणय लिप्सया कालवा- चित्वमध्यवसीयते । न चायमतीतसाधारणः | काले हि निरपेक्षोऽयं कालसंबन्धापेक्षया तु कर्माण वर्तते । तस्मात्कर्मसमभिव्याहाराभावादनङ्गम् | मनुवचनस्य त्वयमर्थः – श्राद्ध शब्देन मासि मासि श्राद्धमुच्यते । दर्शशब्देनाप्यमावास्याकालः । तदयमर्थः—अमावा स्यायामेबाऽऽहिताग्निः श्राद्धं कुर्यान्न तेन विना सर्वेष्वेवापरपक्षाहःसु क्रियमाणः पितृमीणा- तीतिःमृत्यन्तरवशादन्येष्ञप्यहःसु कुर्यादिति । एवं च स्मृयन्तरमनाहिताग्निविषयं भवि- ष्यति । तत्सिद्धं पिण्डपितृयज्ञस्यानङ्गव्यम् । अथाऽऽग्रयणमीमांसा | यद्यपि पूर्वमाश्रयणमीमांसा प्रादर्शि तथाऽपि कश्चित्तच्छेभूत एव भागः प्रदर्श्यते---- अधिकश्च गुणः साधारणेऽविरोधात्कांस्यभोजिवदमुख्येऽपि । ( शा० ३४ । अ० १२ । पा० २ अ० १४ । ) बहिराग्रयणे किंचित्प्रसूनं वा बहुत्वतः । प्राथम्याच्चाग्रिमो मैवमलोपात्कांस्यभोजिवत् ॥ १९ ॥ आग्रयणेष्ट्यामैन्द्राग्नवैश्वदेवद्यावापृथिव्यानि वीषि तत्र द्यावापृथिव्यस्य वैश्वदेविकद्या- वापृथिव्य विकारित्वात्प्रसूनं प्राप्समैन्द्राग्नादेश्व प्रसूनसूनं वा बहिर्मात्रं तत्र समानतन्त्रेषु किं प्रसूनमप्रसूनं वोपादेयमुत प्रसूनमेवेति संशये मुख्यत्वाद्भूयस्त्वाच्चा नियम एव युक्तः ।