पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | त्यविशेषाज्जायापत्योरहिताग्न्योर्विज्ञायतेऽर्धो वा एष आत्मनो यत्पत्नी च । ऐतरे. यब्राह्मणेऽपत्नीकस्याप्यग्निहोत्रानुष्ठानं नित्यमभिहितम् । तेन पत्न्याः सत्त्वे तस्याः प्रवासो न मीमांसाभिमत इति विचारसहम् । २५८ अथ पिण्डपितृयज्ञमीमांसा । पितृयज्ञः स्वकालविधानादन स्यात् । ( आ० प० सू० ३६ | ख० २ । ) क०–स्वस्य कालः स्वकालः स्वकालस्य विधौ पितृयज्ञो नामामावास्यायामनारभ्याधी- तस्तस्य स्त्रक, लो विधीयते । अग्निष्टोमे प्रवृणक्तीतिवन्न कर्मसंबन्धः । अत: ' तस्मात्पि- तृभ्यः पूर्वेद्युः क्रियते ' इति कालमात्र विधानादनङ्गं स्यात् । ६० - पितॄणां यज्ञः पितृयज्ञः । अत्र पिण्डपितृयज्ञः पितृयज्ञ इत्यभिधीयते । 'तस्मा पितृ- भ्यः पूर्वेयुः क्रियते ' इति दर्शपूर्णमासकरणे दर्शनात् । कर्ममध्यवर्तित्वादङ्गत्वे प्राप्त इदमुच्यते - अनङ्गं पिण्डपितृयज्ञः स्यात् । कुतः स्वक उविधानात् । अमावास्यायामपराहे पिण्डपितृयज्ञ इति । न ह्यङ्गत्वे पृथक्क लो विधीयते यथा प्रयाजादेः । तुल्यवच्च मसंख्यानात् | ( आ० श्रौ० १० सू० ३७ । ख० २ । ) क०-दर्शपूर्णमासाभ्यां सह तुल्यवत्प्रसंख्या नाद्गणनात्तद्वदेवानङ्गम् । एवं श्रुतिः - चत्वारो महायज्ञा अग्निहोत्रं दर्शपूर्णमातौ चातुर्मास्यानि पिण्डपितृयज्ञ इति । एवं तुल्यवत्प्रसं• ख्यानान्नाङ्गम् । हृ०–तुल्य इव तुल्यत्रत् | प्रसंख्यानं परिगणनं परिगणनादित्यर्थः । एवं हि श्रूयते- ‘ चत्वारो वै महायज्ञा अग्निहोत्रं दर्शपूर्णमासौ चातुर्मास्यानि पिण्ड पितृयज्ञ इति ' । यद्वा प्रसंख्यानं विधानम् 'अप्यनाहिताग्नेः' इत्याहिताग्नेर नाहिताग्नेश्च तुल्यवद्विधान दिव्यर्थः । अत्र ह्यनाहिताग्नेर्व्यक्तमनङ्गं पिण्डपितृयज्ञ इति । तद्वदेवाऽऽहिताग्नेरपीति । प्रतिषिद्धे च दर्शनात् । ( आ० श्रौ० प० सू० ३८ | ख० २ । ) क०–प्रतिषिद्धेऽमावास्यायागे पिण्डपितृयज्ञो दृश्यते पौर्णमासीमेवयजेत नामाबा- स्यां पिण्ड पितृयज्ञमनुचदंस्तदनङ्गं दर्शयति । ६०–एवं हि शाखान्तरे श्रूयते ' पौर्णामासीमेव यजेत भ्रातृव्यवान्नामावास्यां पिण्डपितृ- यज्ञमेवामावास्यायां कुरुते ' इति दर्शे प्रतिषिद्धेऽपि पितृयज्ञमनुवदन्ननङ्गभावं दर्शयति । अनङ्गत्वाच्च कुण्डपायिनामयने न क्रियते नक्षत्राधानानन्तरे च दर्शेऽपि क्रियते । अदृष्टच- न्द्रायां प्रतिपद्यपराह्णे क्रियत इति प्रयोजनानि । तत्राऽऽहवनीयस्य न प्रणयनमर्थाभा- बात् । नित्यश्चायं पिण्डपितृयज्ञ: ' मासि पितृभ्यः क्रियते ' इति श्रुतेः । 'मासि मासि पितृभ्यः क्रियत इत्यस्याः श्रुतरेर्थोऽधार्यते । तस्मादहरहर्मनुष्याः इति वीप्साधिकारे