पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५४ अग्निहोत्रचन्द्रिका | स्थाप्यस्य न संभवति भावार्थाधिकरणे धात्वर्थविधिविषयाकारसमर्पणं धातुनैव न तु नाम्नेति प्रतिपादनात् । ततश्च सिद्धरूपस्य नाम्ना विपरिवृत्तिरिहानुपयुक्तैवेति न प्रसि द्वा.ग्नहोत्रादिकर्मणः कुण्डपायिनामयनैकदेशलेन विविसंभवः । एवं च विध्यननुप देय गुणश्रवणेन कर्मणो विधेयतया सिद्धवन्निर्देशाभावेन तद्विपरिवृत्त्वभावात्मके पूर्व कर्मासंनि धानापरपर्याये प्रकरणान्तरे सति मासाग्निहोत्रादिविधेरप्रकृतविषयतया प्रयोजनान्यत्वं कर्मभेद; सिध्यतीति सूत्रयोजना । न चैत्रमण्यनुपादेयगुगनिबन्धनत्वात्कर्मभेदस्य गुणा- त्कर्मभेद एत्र पर्यवस्यतीति वाच्यम् | विधीयमानो हि गुणः पूर्वकर्मण्यसंभवन्कर्म भिनत्ति । न चात्र मासगुगो विधानमर्हत्यनुपादेयत्वात् । एवं ' सरस्वत्या दक्षिणे तीर आग्ने योऽष्टाकपालः पुरोडाशः ' इत्यादिदेशसंयुक्ते " सत्रायाऽऽगर्य विश्वजिता यजेत " इत्यादि निमित्तसंयुक्च वाक्ये द्रष्टव्यम् । प्रयोजनम् – पूर्वपक्षे प्रसिद्धाग्निहोत्रादिषु यावज्जीवादिकालैर्मासस्य विकल्पः कुण्डपायिनामयनेऽग्निहोत्राद्यननुष्ठानं च सिद्धान्ते तु तदुभयाभाव इत्याद्य॒ह्यम् । विस्तरस्तूच्चावचो वार्तिकादावनुसंधेय इति । तस्मात् सर्वस्मिन्विचार्यमाणे मीमांसितेषुवेदन च मासगुणो नित्याग्निहोत्रेण विकल्पयितुं शक्य इति निरवद्यः शाकीयः पन्थाः | अग्निहोत्रादिकर्मसु तत्र तत्राऽऽम्नाये सूत्रेषु चानुष्ठेयपदार्थेषु विकल्पं शृणुमस्तत्र यः को वा कल्प इच्छयैव भवविति प्राप्तमतस्तत्सम्यङ्मीमांस्यमित्ययमुपक्रमः । न खल्वि च्छामात्रेण धर्मानुष्ठानमपि तु नियामकशास्त्रस्य सत्त्वाच्छास्त्रानुसार मनुष्ठानेन भवितव्यम् । आह च तदर्थमेव भगवानाचार्थ:- मंतिर्बहुविदां पुंसां संशयान्नोपजायते । केचिदाद्दुरसावर्थः केचिकासावयं त्विति ॥ धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् । तदर्थं मीमांसया विकल्पपदार्थानुष्ठानं निर्णयामः । एवं हि विकल्पितपदार्थानां दिशो दर्शनम् - १ दक्षिणाग्निमानीय विकुलाद्वा । २ आनन्तर्ये विकल्पः । ३ अधिश्रितमभ्यधिश्रितमधिश्रितं हिम्, ( ङ् ) । इति । इळायास्पदं घृतवच्चराचरं जातवेदो हविरिंदं जुषस्व । ये ग्राभ्याः पशवो विश्वरूपास्तेषां सप्तानां मयि पुष्टिरस्विति वा ॥ ४ स्रुवेण प्रतिषिञ्च्यान्न वा । ५ प्रागुदगुत्तरतो वा ।