पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | ' न्तरादिवदप्रकृताभिधानापादकं किंचिन्निरूपणीयम् । तत्तु प्रकरणविच्छेदापरपर्या- यं पूर्वकर्मासनिधानमेव । तथा हि विच्छिन्नप्रकरणं कर्म द्वेषोपादेययुक्तमनुपादेययुक्तं च । तत्र ‘ यदाहवनींये जुहृते ' इत्यादावुपादेयस्थल आहवनीयादिगुणस्य होमे प्रसक्तेः संपादयितुं शक्यत्वेनोपादेयतया होम देशेन विधानसंभवेन विशिष्टविधिगौरवभीत्या कर्मण उद्देश्ययावश्यंभावे दूरस्थस्यापि होमस्य सिद्धवन्निर्देशवलेनाभिध्यानादिना कथंचिद्बुद्धौ परिवृत्ति संपाय यो होमः स आहवनीय इत्येवं गुणविधिसंभवः । अनुपादेयगुगस्तु पञ्चधा- “ देश: कालो निमित्तं च फलं संस्कार्यमेव च । इति मीमांसका: प्रादुरनुपादेयपञ्चकम्" इति । २५३ तदिह मासस्याग्निहोत्रादिकर्मणि प्रसक्ते संपादयितुमशक्यतया दध्यादिषदानयनादि- क्रियाविशिष्टत्वेनाननुष्टेयतया चानुपादेयस्याग्निहोत्रादिकर्मोद्देशेन पर्यवतानगत्याऽपि विधा- नासंभवेन यो मासस्तत्राग्निहोत्रादि कुर्यादित्येवं मासा नुवादेनाग्निहोत्रादिकर्मण एव भावार्था- धिकरणन्यायेन विधेयतया विहितस्य विधानान्यथानुपपत्तेः प्राप्तवन्निर्देशाभावेन परमकर णपाठेन च पूर्वकर्मप्रत्यभिज्ञाविरहाच्च सिध्यति कर्मभेदः । ' पौर्णमास्यां यजेत ' सायं जुहोति प्रातर्जुहोति ' इत्यादौ कालो देशेन कर्मविधावपि न कर्मान्तरत्वमिति ' संनिधौ त्वविभागात् ' इत्यधिकरणेऽनुपदमेव वक्ष्यामः । तत्र मासस्यानुपादेयत्वेऽपि तत्र कर्मणोऽ नुष्ठेयतामात्रेण कथंचिद्विधिसंस्पर्शा परे देशप्रवृत्तकृतिव्याप्यत्वलक्षणपार, र्थ्यात्मकशेपत्वरूप मङ्गत्वमुपपाद्यम् । ननु मासाग्निहोत्रा दिवाक्ये प्रसिद्ध ग्निहोत्रादिकर्मणः संनिधिकृतप्रत्यभि ज्ञाविरहेऽपि नामधेयकृता तत्प्रत्यभिज्ञाऽस्ति । न च नाम्ना तद्विपरिवृत्तावपि तत्रानुपादेय- स्य सिद्धयसंभवाद्विपारवृत्तिरप्रयोजिकेति वाच्यम् । प्रसिद्धाग्निहोत्रादिकर्मण मासविध्य- संभवेऽपि तस्यैव कर्मणो नाम्ना विपरिवर्तमानस्य कुण्डपायिनामयनैकदेशत्वेन विधिसंभ- वादिति चेन्न । प्रसिद्धग्निहोत्रादिकर्मणः कुण्डप | यिनामयनैकदेशत्वेन विधानेऽप्यग्निहोत्रा- दिशब्दस्य धात्वर्थमात्रनामधेयतया तेन भावनाया उपस्थिन्यभावेन तद्भेदस्याप- रिहार्यत्वात् । किं मासं जुह्वतीयाख्य तवर्तिना धातुना स्वरसतो लिङ्गसं- ख्यान्वयानर्हसाभ्यत्वरूपेण कर्मान्तरमभिधीयन इत्याशिहोत्रादिनाम्नाऽपि साध्वरू पेणैव तदभिधेयं नाम्न आख्यात परतन्त्रत्वात् । अतः कथं मासाग्निहोत्रादिवाक्ये ऽग्निहो- त्रादिनाम्ना प्रसिद्धस्त्र कर्मण उपस्थितिः । अस्तु वाऽत्र नाम्ना सिद्धरूपेणोपस्थिति- स्तथाऽप्याख्यातेन साध्यत्वेन प्रतीतस्य प्रसिद्धहोमस्य कथं तेनोपस्थितिः । न च नाम्ना तद्रू- पोपस्थित्यभाबेऽपि नैयमिकाग्निहोत्रादिशब्दो यद्रूपवाचकस्तद्रूपविपरिवृत्तिरस्त्विति वाच्यम् । विध्यर्थं हि प्रसिद्धाग्निहोत्रादिकर्मणो विपरिवृत्तिरिहोच्यते । विधिश्च सिद्धरूपस्य नाम्नोप-