पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२५२ अग्निहोत्रचन्द्रिका | परित्यज्य कर्मान्तरमेवैषु वाक्षु विधेयम् । न चोपसद्भिश्चरित्वेत्यस्य तेषां द्वादशोपसदः सोममुपन मासमग्निहोत्रं जुह्वतीति पाठप्राप्तो पसदानन्तर्यानुवादकतयोपपत्तेर्वाक्यभेदा- प्रसङ्गादस्तु प्रसिद्धाग्निहोत्रकर्मणि गुणविधिरिति वाच्यम् | पाठो ह्याकाङ्क्षितमेव क्रमं प्रापयितुमीष्टे न त्वनाक'ङ्क्षितमपि । एकप्रयोगवचनपरिगृहीताज्ञानामेव हि क्रमाकाङ्क्षा भवति तेषामित्थंभावाकाङ्क्षया युगपदुपनिपातात् । न च प्रसिद्धाग्निहोत्रादिकर्मणः कुण्डपाविनामयनस्य चाभिषोऽस्ति येन तेषां कुण्डपायिनामयनमुपयन्तीत्येकप्रयो गवचनपरिगृहीतत्वात्क्रम आकाङ्क्ष्येत । ' दीक्षितो न ददाति न जुहोति • न पचति ' इति सोमऋतुमध्ये पुरुषार्थ होमप्रतिषेधेन प्रसिद्धाग्निहोत्रादिकर्मणस्तत्रैवोपनिपाताभावाच्च । एवं च काम्येष्टीनामियात्र पठस्य क्रमप्रापकत्वासंभवेनोपसद्भिश्चरित्वेयस्य पाठप्राप्तक्रमानु- वादकत्वानुपपत्त्यॊोषसदस्तदानन्तर्यं मासश्चेति त्रयमपि विधेयमिति स्वीकार्यमिति भवेदेव वाक्यभेदः । एतेन — दीक्षितो न जुहोति ' इति प्रतिपिद्धस्प प्रसिद्धाग्निहोत्रादिकर्मणः प्रतिप्रसवरूपेण वा सत्रैकदेशत्वेन वा विधिरिति प्रत्युक्तम् । उक्तरीत्या प्राप्तकर्मण्यने- कगुणविधाना संभवेन प्रतिप्रसवायोगात्सत्रसंबन्धस्योपसदादीनां च प्रसिद्धकर्माण विधौ वाक्यभेदापत्या सभैकदेशत्वेन विध्यनुपपत्तेश्च | तस्मादत्र कर्मान्तर विधानमिति भाष्यानु सारी पन्थाः । तमिमं प्रकारं भक्त्वा प्रकारान्तरमुत्प्रेक्षितं वार्तिके तद्यथा- -अप्रकृता- भिधानात्मकं प्रकरणान्तरं न पृथक्शब्दान्तररादिवः कर्मभेदकोपाधिः । प्रसिद्धाग्निहोत्रादि- कर्मण्यसंभवत उपसदादिगुणादेव कर्मभेदसिद्धेः । नन्वत्र प्रकृताभिधानापरपर्यायात्मक रणान्तरादेव कर्मभेदो न तु गुणात् । अप्रकृताभिधानं हि प्रागनवगताग्निहोत्रादिकर्मा- भिधानम् । तच्च प्रसिद्धाग्निहोत्रादिकर्मण्यसंभवत उपसदादिगुणा दध्यवसीयते । तथा च कर्मभेदावगमकप्रकरणान्तरस्याऽऽत्मलाभ उपक्षीणत्वाद्गुणस्य नात्र कर्मभेदकत्वमिति चेन्न । एवं सति वाजिभ्यो वाजिनमित्यत्राप्यप्रकृताभिधानादेव कर्मभेदापत्तौ गुणस्य कर्मभेदक- त्वानुपपत्तिप्रसङ्गात्पूर्वकर्म|संयोगिनो वाजिनगुणस्याप्रकृताभिधानस्वरूपलाभ एवोपक्षीण - त्वात् । किंबहुना शब्दान्तराभ्याससंज्ञानामपि विधेरप्रकृतविषयत्वबोधन एवोपयोगः । अप्रकृताभिधानाच्च कर्मभेद इति वक्तुं शक्यतया सर्वत्र प्रकरणान्तरमेव भेदकं स्यात् । शब्दान्तरादामां शेषाणां प्रकरणान्तरेण शेषिणाऽविनाभावात् । न हि शब्दान्तरादीनां परस्परपरिहारेणेव प्रकरणान्तरपरिहारेण क्वचिद्वर्तनं संभवति । तथा च तैः सह प्रकरणा न्तरस्य कथं पृथक्प.रैगणनं स्यात् । न हि प्रधानस्योपसर्जनभूतैः सह परिगणनमुचितम् । किंचो पसा.द्वश्वरत्वेत्यस्य संनिहित महोत्रा क्यान्वयेन शान्ताकाङ्क्षस्त्रान्निराकाङ्क्षत्वाच दर्शपूर्णमासादिवाक्यानां न तेषु तस्यान्वयः । एवं च दर्शपूर्णमासादिवाक्येषूपसदां तदानन्तर्यस्य चाविधानान्मासमात्रस्यैव गुणस्प विधानाद्वाक्यभेदाभावेन नाम्नोपस्थितस्य प्रसिद्धदर्शपूर्णमासादिकर्मणः परित्यागाभिधानं प्रकरणान्तरं तत्र नास्तीति कर्मभेदो न स्यात् । तस्मादत्र वाक्यभेदप्रयुक्तमप्रकृत्ला भिधानं न कर्मभेदप्रयोजकम् । किंतु शब्दा- -