पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | पश्रुत्या धात्वर्थस्य विधिसंभवे वाक्येन गुणविधानं युक्तम् । ननु नामधेयत्वेऽरूपत्वं दोषः स्यादित्यत्रोत्तरम् –तत्प्रख्यं चान्यशास्त्रमिति | चशब्दो ह्यर्थ उक्तसमुच्चयार्थो वा । तच्छब्देन गुपोपदेश इत्युपात्तो गुणः परामृश्यते । यागनामधेयत्वे यागस्य रूपलाभाय यो गुणो विधेयतयाऽपेक्षितस्तं प्रचष्टे विधत्त इति तत्प्रख्यम् । ' आतश्चोपसर्गे (पा० सू० ३ । १ । १३६ ) । इति कः । विधिसितस्याग्न्यादिगुणस्य विधायक मन्यच्छास्त्र- मस्ति । अतस्तदग्निहोत्रादिपदमनि नामधेयं स्यादित्यर्थः । तथा हि — अग्निहोत्रं जुहोति ' इत्यग्निहोत्रनामधेयकस्य होमस्य विधिः । } ( ' अग्निज्योतिर्ज्योतिरग्निः स्वाहेति सायं जुहोति । सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ' इतिविहितमन्त्रवर्ण तोऽग्निसूर्यदेवतालाभः । न च षोऽयं होमः स चेत्सायमिति वाक्यभेदः शङ्क्यो होमस्य प्रकरणत एवोपस्थित्या तदंशे शब्दस्य व्यापाराभावात् । " ● यदग्नवे च प्रजापतये चइत्यादिवाक्यद्वये ऽग्निसमुच्चिनः सूर्यसमुच्चितश्च प्रजापतिर्विधीयते । तत्र मन्त्रवर्णप्रातामियां विधिव्यापाराभावान विशिष्टविधिगौरवम् । एवं चाग्निसूर्यानुवादेन प्रजापतिसमुञ्चयविधिः पर्यत्रस्पति । एतेन समुच्चयस्य चार्थस्य विशेष्यत्वाभावान विधेषत्वमिति निरस्तम् । तद्विधेरा- र्थिकत्वात् 1 ' सायं जुहोति । प्रातर्जुहोति ' इति कालविधिः | सायंप्रातर्व्यव स्थितमन्त्रवर्णलग्धाग्निसूर्यानुवादेन प्रजापतिसमुच्चयो विधीयमानोऽपि तदनुवाद्यदेवतानुसा- रेण व्यवस्थप्रैव प्राप्नोतीति ' यदग्नये च ' इति वाक्ये सायंप्रातरित्यनुवादः | अग्नि- होत्रमिति द्वितीया तु फलभावनाकरणस्यापि यागस्य ' नासाधितं करणम् इति न्यायेनार्थाक्षिप्तसाध्यत्वाभिप्रायेति प्राञ्चः | ६ , अत्रेदं वक्तव्यम् । तैत्तिरीय कब्राह्मणे- ' प्रजापतिरग्निमसृजत ' इत्युपक्रम्य तं प्रजापति रखत्रीज्जायस्वेति सोऽब्र- वीकिभागधेयमभिजनिष्य इति । तुभ्यमेवेद हूयाता इत्यब्रवीत् । स एतद्भा गधेयमभ्यजायत । यदग्निहोत्रम् | तस्मादग्निहोत्रमुच्यते । तद्भूयमानमादित्योऽ ब्रवीत् । मा हौषीः । उभयोर्वे नावेतदिति । सोऽग्निरब्रवीत् । कथं नौ होण्य न्तीति । सायमेव तुभ्यं जुहबन् । प्रातर्मयमित्यव्रवीत् । तस्माद्ये साय हूयते । सूर्याय प्रातः । -- इति देवताविधिः केवलाग्निसूर्यपोर्देवतयोविंधनात् । मन्त्रवर्णप्राप्तो ज्योतिष्टोमगुगो नाऽऽदर्तव्य आग्नेयादियागे 'अग्निदिवः' इत्यादियाज्यापुरोनुचाक्यागम्यगुगवत् । तूष्णीमुत्तरामाहुतिं जुहोति । यत्तूष्णीं तत्प्राजापत्यम्' इति द्वितीयाहुतिरङ्गन विधीयतेऽग्निसूर्यहोमशेरेव प्राधान्याचगमात् । यहि वाजपनेयके- 'याम जुहोति सा 6 ६