पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२७१

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४८ अग्निहोत्रचन्द्रिका | ( 'सूर्यो ज्योतिः' इति मन्त्रवर्णतस्तल्लाभसंभव इति शक्यम् । ' अग्निर्ज्योतिर्ज्योतिरंग्निः स्वाहेति सायं जुहोति सूर्यो ज्योतिर्ज्योतिः सूर्यः स्वाहेति प्रातः ' इति मन्त्रविध्योः सायंप्रातःप्रत्यभिज्ञावलेन यदग्नये चेति वाक्यद्वयविहित विशिष्टकर्मान्तर विषयत्वावगमेनाग्नि- होत्रवाक्यविहिते कर्मणि नतो देवतालाभसंभवात् । तस्मादत्राग्निहोत्रशब्दस्य नामधेयत्वे कर्मणोऽरूपत्वापातागुणविधानमेव युक्तम् । एवं चाग्निहोत्रमिति द्वितीयाऽप्युपपन्ना भवति । नामत्रेयत्वे हि भावनाकारणीभूतधात्वर्थवाचित्वात्तृतीया स्यात् । उद्भिदा यजेतेत्यादिवत् । गुणविधित्वे त्वग्नये होमं कुर्यादित्यर्थ पयेवसानात्सा न विरुध्यते । न च कस्मिन्होमेऽयं देवताविधिः । न त वद्यदग्नये चेति विहिते कर्मण्युत्पत्तिशि- ष्टदेनतान्तराव्दत्वात् । अत एव न दर्शपूर्णमासादिगतहोमेष्विति वाच्यम् । अविहितदेवताकेषु नारिष्ठादिदवहोमेष्वग्निदेवताविधिसंभवात् । न च मानवार्णिक- देवतान्तरावरोधात्तत्र नाग्निविधिः संभवतीति वाच्यम् । मन्त्रवर्णप्रवृत्तेः प्रागेव झटितिवृत्तेनाग्निहोत्रवाक्येण तत्राग्नेरेव निवेशाद्देवतान्तरपदानां च तत्रत्यमन्त्र- गताना मैन्द्रीन्यायेनाग्निलक्षकत्वोपपत्तेः । वस्तुतस्तु यत्र दवहोमेषु न देवता. विधिर्न वा मन्त्राम्नानं त्त्र गुणविधानं भविष्यति । अस्ति हि वाजसनेयके हव्य- वाहकाण्डे सप्तभाध्यायान्ते ' दर्शपूर्णमासयोरुत्तममनूयाजमिष्ट्वा समानीय जुहोति' इति तादृशदर्बीहोमविधिः । औपभूतमाज्यं जुह्वां समानीय जुहोतीति तदर्थः । एवं चाग्निहो- त्रमिति गुणविधिरेव न तु नामधेयम् । यदग्नये चेत्यादिवाक्यद्वयं तु विशिष्ट कर्मान्तरवि घायकम् । दध्ना जुहोतीत्यादिस्तु तत्रैव गुणविधिः । ' सायं जुहोति प्रातर्जुहोति इति चं तयोरेव विशिष्टकर्मणो विश्व जिन्न्यायकल्प्ये फले समुच्चयविधिः । अन्यथा नये च ' इति ‘ यत्सूर्याय च ' इति पृथग्विधिबलात्पृथगेव फलं कल्प्येत । ‘ अग्निहोत्रं जुहुयात्स्वर्गकामः ’ ‘ यावर्ज्जीवननिहोत्रं जुहुयात् ' इति च दवहोमाश्रिताग्निदेवताफले निमित्ते च विधीयते यावर्ज्ज वानुष्ठतदव हो माश्रिताग्निना फलं कुर्यादिति । तदेवमग्निहोत्र- पदं गुणविधिर्न तु नामधेयमिति स्थितम् । ( यद. , इति प्राप्ते सिद्धान्तयति -- तत्प्रख्यं चान्यशास्त्रम् ( पू० मी० १ । ४ । ४ )। वृत्तिः– यस्मिन्गुणोपदेशः प्रधानतोऽभिसंबन्ध इति नामधेयं स्यादिति चानुव र्त्तते । यस्मिन् ‘ अग्निहोत्रं जुहोति ' इत्यादिवाक्येऽग्न्यादिगुणविधिः संभाव्यते तत्र नामधेयमेव स्यात् । कुतः– यतो नामधेयत्वे प्रधानतोऽभिसंबन्धः । विधेयत्वेन धात्वर्थेन विधिप्रत्ययस्याभिसंबन्ध एकपदवृत्तित्वं लभ्यते । गुणविधित्वे तु विधेयस्य गुणस्य विधिप्रत्ययस्य च भिन्नपदवृत्तित्वं लभ्यते । तथा च गुगस्य विधेश्च संबन्धः पदद्वयसम- भिव्याहारवाक्यगम्शे न तु धास्त्रर्थविधिसंबन्धवच्छ्रुतिगम्पः । न हि समानपदवृत्तित्वलक्ष-