पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २४१ तेषां च सूत्राणां विद्वद्वरेण तत्रभवता भगवतोपवर्षंगाऽऽचार्येण वृत्तिव्रचि । सा खलु यथा. चन्नोपलभ्यते । शबरस्वामिना च भाष्यं प्रणीतं वार्तिककृता कुमारिलभट्टाचार्येण वार्तिकं ( श्लोकार्तिकं तन्त्रवार्तिकं टुण्टी केयपरनामधेयं ) व्यधायि । तत्र भाष्यवार्तिकभिप्रायं जानता तत्रभवता पार्थसारथिमिश्रेण दीपिकया प्रक शितमेतच्छान्त्रम् | तदिदानी मया यथा विद्यारपैर्वेदभाष्येण मीमांसा संकलिता तद्वदेव याज्ञिकानां प्रयोगशास्त्र दूदूतरेयं मीमांसेति जानता प्रयोगशास्त्रीय ग्रन्थेन संकलयितुं प्रयत्यत इति क्षम्यतां मे वाष्र्यम् । ननु यथाम्नातानुष्ठानं विधातुं प्रवृत्तेषु सूत्रेषु जाग्रसु किमिदं याज्ञिकानां मीमांसायाः प्रयोजनम् । ब्रूमः-

- न हि मीमांसां विना यथाशास्त्रं कर्मणोऽनुष्ठानं संभवति देवगुरोरपि । अत

एव वार्तिकयांबभूवुरत्र भट्टपादाः -- धर्माख्यं विषयं वक्तुं मीमांसायाः प्रयोजनम् । मीमांसाख्या तु विद्येयं वहुविद्यान्तराश्रिता || अत एव मीमांसाज्ञानं यथावदेव ज्ञेयम् । अन्यथाज्ञानेन ह्यनर्थो भविष्य- त्यज्ञातेऽनुष्ठानमेव न भविष्यतीति मीमांसाज्ञानेऽवश्यं यत्नवद्भिर्भवितव्यमिति पुनः श्लोक- यांबभूव - . मीमांसायां त्विहाज्ञाते दुईते वाऽविवेकतः । न्यायमार्गे महान्दोष इति यत्नोपचर्यता || ननु वेदार्थज्ञानार्थमेव मीमांसायाः प्रयोजनं चेत्तत्रैव प्रय. सो भवतु | फलवन्ति हि वेदवाक्यानि धर्मप्रापणात् । अतस्तेषु सफलो व्याख्याप्रयासः सूत्रेष्फलाकि प्रयासेने- त्यत्राऽऽहुर्भडपादाः- यथा धर्मावबोधस्य प्रमाणं वैदिकं वचः । तदर्थनिर्णये हेतुर्जेमिनीयं तथैव नः ॥ तर्हि ये वेदस्याप्रामाण्यं ब्रुवते तन्निराकरणाय मीमांसाया उपयोगो भवतु नाम । किं पुनरवशिष्टं मीमांसायाः क. र्यमिति चेदाह - स्थिते वेदप्रमाणत्वे पुनर्वाक्यार्थनिर्णये । म तिर्बहुविदां पुंसां संशयान्नोपजायते ॥ के चिदाहरसावर्थः केचिन्नासावयं तन्निर्णयार्थमध्येतत्परं शास्त्रं मणीयते || त ।