पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६५

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४२ अग्निहोत्रचन्द्रिका | बहुधा बहुस्थले भीमांसाया आवश्यकत्वविषये वर्णितं मट्टयादेः किं बहुधोक्तेनाऽऽक र्णयत - मीमांसाशास्त्र तेजोभिर्विशेषेणोज्ज्वलीकृते । वेदार्थ ज्ञानरत्ने मे तृष्णातीव विजृम्भते ।। प्रायेणैव हि मीमांसा लोके लोकायतीकृता । तामास्तिकपथे कर्तुमयं यत्नः कृतो मया ।। इत्यादि बहुशः प्रदर्शयितुं सुशकं परं तु ग्रन्थविस्तरभिया नेह तन्यते । एतावता धर्मं जिज्ञासमानानां ज्ञात्वाऽनुष्ठातॄणां च सर्ववाक्यगतन्यायनिरूपणात्मिका मीमांसा निकटतरेति ममायं प्रयत्नो यत्प्रयोगशास्त्रमीमांसयोः संकलीकरणम् । तत्र प्रथमतोऽग्नि- होत्रमीमांसामारभामहे । ततः प्रावासिकी पिण्डपि यज्ञादिसंबन्धिनीम् । ८ अग्निहोत्रं नाम यावर्ज्जवमनुष्टीयमानो नित्यः कर्माविशेषः । तदिदमनुतिष्ठासद्भिरत्रश्यं प्रथमतोऽमय आवातव्याः । तदिदमग्न्याधानं विवाहादश- मेऽहनि जायामबाप्याग्नीनादधीतेति कल्पवाक्य||निश्चिनुमः । अग्न्याधानानन्तरमवश्यं ‘‘यावज्जीबमग्निहोत्रं जुहोति” इति बहुचत्राह्मणाम्नानादग्निहोत्रानुष्ठानं समापतितं नापोतुं शक्यं विविधप्रलापकर्तृभिरित्यत्रोदघोषि मीमांसाचणैः । तदेवं कर्नभेदलक्षणे भगवाऔ,मनि- राचार्यः–“यावज्जीवमग्निहोत्रं जुहोति " इत्यत्र “ अग्निहोत्रं जुहुयात्स्वर्गकामः " इति विहितक,म्नप्रयोगस्यैकस्य यावज्जीवकालमभ्यासो विधीयत उत जीवने निमित्तेऽग्नि- हे त्रस्य बहूनां प्रयोगाणां स्वर्गकामांवहितादन्येषां विधिरिति संशये पूर्वपक्षयांबभूव -- “ यावज्जीविकोऽभ्यासः कर्मधर्मः प्रकरणात् " ( पू० मी० २।४ । १ ) बृत्तिः–कर्मशब्दः प्रयोगचःची | स्वर्गकामवाक्यविहितोऽयं काम्यः प्रयोगस्तस्य धर्मः शेषभूतः कालो यावज्जीविको यावज्जीववाक्यगम्यो भवति । काम्यप्रयोगाङ्गतय, यावर्ज वकालो विधीयते न तु जीवने निमिते प्रयोगान्तरमिति यावत् । कुतः - प्रकरणात् । एवं हि प्रकरणमनुगृहीतं भवति । यद्यपि प्रकृतकर्मण एव जीवने निमित्ते विधानात्पक्षा- न्तरेऽपि न प्रकरगबाधः । तथाऽपि प्रकरणमत्र नाधिकाररूपं विवक्षितं कित्वित्थंभावा- काङ्क्षालक्षणं विवक्षितम् । तच्च कर्म धर्ममपेक्षमाणं जीवने निमित्ते पुरुषार्थतया प्रयो गान्तरविवौ बाधितं स्यात् । ननु काम्यप्रयोगस्यैकस्य यावज्जीवकाले कर्तुमशक्यत्वात्प्रयो- गबहुत्वम पतितमित्यत आह --- अभ्यास इति । यावर्जीवक लविधौ हि तत्सामर्थ्यादेकस्यैव काम्यप्रयोगस्याभ्यासः पर्यवस्यति । यथा -- 'सोमेन यजेत ' इत्युत्पन्नस्यैत्र यागस्यैन्द्रवाय- ,