पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२४० ना० वृ॰—नित्यः आचार्यः ॥ ८ ॥ अग्निहोत्रचन्द्रिका | केवलोऽग्निर नुवाक्या च ।' अग्निवृत्राणि ' इत्यनुब्राह्मणिन अन आयूंपि पवस इत्युत्तरम् ॥ ९ ॥ , दे० भा० - अग्न अ.यूंपि पवस इति चोत्तरमाउनभागम् । एते अनुवाक्थे । अन्यस्मिन्पक्षे ‘ अग्नयेऽनुब्रू ३ हि, अग्नये पवमानायानुब्रू ३ हि ' इति मैषौ भवतः । यथाऽध्वर्युर्येन गुणेन प्रैषमाह तथाऽनुवृत्तिरिज्या च प्रयोक्तव्या ॥ ९ ॥ ना० वृ० उत्तरोऽपि केवलोऽग्निरियं चानुत्राक्पाऽनुब्राह्मणिनामे (नस्यै) वाभिमा- येण ॥ ९ ॥ नित्यस्तूत्तरे हविः शब्दः ॥ १० ॥ दे० भा०. - आज्यभाग आग्नेयेऽपि सति नित्यस्तु अच्युतो हविःशब्दः । तुशब्दः प्राप्तव्यावृत्त्यर्थः । १० ॥ वृत्तिः - उत्तरे याज्यामन्त्रे हवि: शब्दस्य सोमधर्मःवात्तभिवृत्तौ तस्य निवृत्तिप्रसङ्गे तत्स्थानापन्नत्वादग्नेरपि तद्धर्मसंबन्ध इति मत्वा नित्यस्त्वित्युक्त गन् ॥ १० ॥ आग्नेयं हविरथा ह्यग्ने क्रतोर्भद्रस्याऽऽभिष्टे अद्य गीर्भिर्गुणन्त एभिन अर्कैने तमाश्वं न स्तोमैरिति संयाज्ये देवं बर्हिरनेर्वसुवने वसुधेयस्य वेतु देवो नरा- शंसो वसुवने वसुधेयस्य वेत्विति ॥ ११ ॥ दे० १० भा० - आग्नेयं हविःशब्दो न प्राप्नोति तस्मादिदमुच्यत आग्नेयं हविः । अस्या. मिष्टावाग्नेयं हविर्भवति । अति वक्त हविग्रहणाद्धविरेवाऽऽग्नेयं नाऽऽज्यभागाविति प्राकृताचेवाऽऽज्यभागावित्ययमेक: कल्पः | अधा ह्यग्ने, आभिष्टे, इत्येते याज्यानुवाक्ये आग्नेयस्य ‘ एभिर्नो अर्कैरम्ने तमद्य ' इत्येते संया भवतः । देवं बर्हिः प्रथमेऽनुयाजे षष्ठी विभक्तिर्भवति द्वितीये सप्तमी तृतीयः प्राकृत एव ॥ ११ ॥ शेष पौर्णमासेन ॥ १२ ॥ वृत्तिः–गतार्थमिदम् ॥ १२ ॥ अग्निहोत्रमीमांसा | . अये विविधविद्याविलासोल्लासित्त्वभूयो विद्वद्वारा महाशया: प्रिनमहोदया धर्में कमूलस्य स्वतः प्रमाणभूतस्य वेदस्य पूर्वोत्तरभदेन हौ भागौ तत्रोत्तरभागनुद्दिश्य प्रवृत्ता ब्रह्ममीमांसा पूर्वभागं चोद्दिश्य प्रवृत्ताऽध्वरमीमांसेत्यपरनामवेया पूर्वमीमांसा या खल्त्रत्य- न्ताभ्यर्हितस्त्रावश्यमुपादेयत्वात्सकलशास्त्र मूलदार्थज्ञानार्थमध्ययनीयत्वाच केवलमीमां साशब्देनापि शस्यते । पूर्वं विदुः कृताधिकतरादराऽप्येषा मीनांसा संप्रति दैवकोप. बशाद्भारतबर्षस्य भाग्यविपर्ययाच लुप्तकसेव वर्तते । अस्य च मीनांसाशास्त्र मूलभूत- रेयादिब्राह्म गग्रन्था मुनिपथर जैमिनि निद्वादश ज्यापु संविभकानि सूत्राणि च ।