पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २३७ यस्य बोभावनुगतावभि निम्रोचेदभ्युढ़ियादा पुनराधेयं तस्य प्राय- वित्तिः ॥ ५१ ॥ वृत्तिः~~वाकारः समुच्चयार्थः | उमाविलग्न्योः परःमर्शः । अनुगतशब्दसमभित्र्या- हारात् । तौ च गार्हपत्य.हबनीयो प्राधान्यान् | निम्रचननस्तमयः । तदवमर्थः—अग्नि- होत्रार्थ विहृतमजस्त्रं वाऽऽहवनीयं गार्हपत्यं च भावनुगनाभि सूर्यो निर्वाचदृदियावा तस्य पुनर वेयं प्रायश्चित्तिरिति । केचिपुनरत्राविहृत अवहनीये केवळगार्हपत्यानुगमनेऽ- प्युभयानुगतिमिच्छन्ति पश्चाद्धि स तर्हि गत इति लिङ्गेना विह्वतःवस्थायाम हवनः यस्य गार्हपत्यानुप्रवेशानुगमनात् । तत्तु न मृष्यामहे । कस्नात् । प्रभाविश्यनेन तःबद्वरो- धात् । न ह्येकोऽग्निरुभाविति शक्यते व्यपदेष्टुम् । न च यथोक्तालाहवनीयस्य गार्हपत्यानुप्रवेशसिद्धिस्तस्यान्यपरत्वात् । अस्तु वाऽनुप्रवेशः । तथाऽप्यनुप्रविष्टोऽयमानुमा- निकोऽग्निरश्वत्थस्थाग्निवन्नाग्नित व्यवहारभाजनं भवितुमर्हति । प्रत्यक्षामिगोचरत्वात्सवीग्नि- ब्यवहाराणां यथाऽन्तर ग्नी तिष्ठन्यदि गार्हपसाहवनीयावित्यादि । किं चानुगमनव्यवहारोऽपि प्रत्यक्षाग्निनाशगोचर एव दृष्टः । यथा यदि पूर्वोऽनुगतः । यदि गार्हपय अहवनीयो वाऽनुगच्छेदित्यादि । तथा परोक्षव्यतिरेकश्च दृष्टः । यदरण्योः रुमाकूडो नश्मेदिति । किं चैवं परोक्षस्य,प्यग्नेरनुगमनमिच्छतः सर्वत्राविनावस्थायां गार्हपत्यानुगताबाहवनीया. नुगतिप्रायश्चित्तनपि प्रसज्यते । तथोभयसंसर्गात्संसर्गप्रायश्चित्त द्यपि प्रसज्जयितव्यम् । तस्मात्सिद्धं न केवलगार्हपत्यानुगमनम् | उभयानुगमनमिति । न चोभावनुगतावित्युभया- भावमात्रलक्षणेति युक्तम् | मुख्यार्थसंभत्रे लक्षणाश्रयणस्यायुक्तत्वान् | तस्माद्रियमाणोन- यविनाशविषयोऽयं विधिरित्येव सांप्रतम् । एवं चाविहृतावस्थायां केवलगार्हपत्यानुगनने सतोरप्युदयास्तमययोरनुगतिप्रायश्चित्तमनुरणप्रायश्चितं च कृत्वाऽग्निहोत्रहोमः कार्य इति सिद्धं भवति ॥ ५१ ।। पुनराधेयामित्याश्मरथ्योऽग्न्याधेयमित्यालेखन आलेखनः ॥ ५२ ॥ वृत्तिः - आलेखनमतप्रदर्शनेनैव विकल्प सिद्धावाश्मरथ्यमतप्रदर्शनेन स्वमतसंवादः ख्याप्यते–पुनराधेयं प्रत्यादरविशेषार्थमिति वेदितव्यम् ॥ ५२ ॥ पुनराधेयसूत्राणि रुद्रदत्तकृतवृत्तिसहितानि प्रादर्शयम् । प्रयोगस्तु आधानप्रयोगान्न विशे- षतो भिद्यते । यत्रःस्ति भेदः स सूत्रत एवावगन्तुं सुशकः । अतस्तदर्थं न पृथग्यत्नोऽनु- ष्टीयते । आधानपद्धतिस्तु सर्व सामान्यप्रयोगं दर्शयिष्यति । विशेषप्रयोगमेदं तु दीपिका कृत्प्रदर्शयिष्यति । केवलं हौत्रसूत्रमात्रमत्र भाग्यसहितं प्रदर्शयिष्यामः । अन्यत्रं तु प्रकृत्या समानमेवेति तत एवावगन्तव्यम् । J