पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२६०

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २३५ क्षौमेण वाऽश्वं संज्ञपयन्तीत्यादौ । विकल्पते चैतद्वयं पुनर्निष्कृतादिभिः | पुनः काम्यत इति पुनःकाम: पुनराधेयफलम् || ४१ ॥ यदीतराणि न विद्येरन्नप्यनड्वाहमेव दद्यात् । अन्डहि ह वा एते च कामा अतश्च भूयांस इति पैङ्गायनिब्राह्मणं भवति ॥ ४२ ॥ वृत्तिः–अनड्बानिति पुनरुत्सृष्ट एवं गृह्यते । यतिराणि न विद्येरन्नितीतरशब्द- सामर्थ्यात् । स चाऽऽग्न्यायिकीरपि निवर्तयति । अनड्वाहमेवेन्यवधारणात् ॥ ४२ ॥ देवे अग्नौ देवो अनिरितिद्वयोरयाजयोविंभक्ती दधाति ॥ ४३ ॥ वृत्तिः - तद्यथा देवे अग्नौ बर्हिर्देवो अग्निर्नर, शंस इति ॥ ४३ ॥ नोत्तमे ॥ ४४ ॥ वृत्तिः– व्याख्नात उत्तमप्रयाजेन ॥ ४४ ॥ उच्चैरुत्तमं संप्रेष्यति ॥ ४५ ॥ वृत्तिः-संप्रेष्यतीति प्रदर्शनार्थम् । याज्याऽप्युच्चैरेव । यथोक्तमुपांशु यजयोत्तमादनू, याजादिति ॥ ४५ ॥ सिद्धमिष्टिः संतिष्ठते ॥ ४६ ॥ वृत्तिः : -गतः ॥ ४६ ॥ आग्निवारुणमेकादशकपालमनुनिर्वपति सर्वेषामनुनिर्वाप्याणां स्थाने द्विदे- वत्यानां वा ॥ ४७ ॥ - वृत्तिः – द्वितीयस्मिन्पक्षे पवमानहविपामन्त आग्निवारुणः | तदन्त आदित्यस्तदन्ते 'वैष्णव इति क्रमः ॥ ४७ ॥ सिद्धमिष्टिः संतिष्ठते । संतिष्ठते पुनराधेयम् ॥ ४८ ॥ वृत्तिः—गतौ यथाऽग्निहोत्रादीनि प्राप्ते काले भवन्ति । नन्वारम्भार्था दशहोत्रादय इति प्रागेव दर्शितम् ॥ ४८ ॥ यस्तृतीयमादधीत स एतान्होमाञ्जुहुयाल्लेक : सलेक: सुलेक इति ॥ ४९ ॥ वृत्तिः— अथ तृतीयाधाने कश्चिद्विशेष उच्यते । तत्र यः पराचीनं पुनराधेयादग्नि- मादधीत स एतान्होमाञ्जुहुयादिति । श्रुत्यनुरोधात् । यः प्रथममग्नीनाधाय ततो द्वितीयं पुनराधेयं कृत्वा पुनस्तृतीयमाधत्ते | विशेषत्रचनात् । तस्यैते होमा भवन्ति । यथा- कथंचिद्वा तृतीयाघाने विशेषावचनात् । तथाऽन्यत्र मीमांसा | किं तृतीये पुनराधन