पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५९

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

२३४ अग्निहोत्र चन्द्रिका | अग्ने तमद्याश्वमित्यक्षरपङ्क्त्यो याज्यानुवाक्या भवन्ति । द्वे आनेयस्य द्वे स्विष्टकृतः ॥ ३४ ॥ - वृत्तिः -- आदितो द्वे प्रधानस्य | परतो द्वे स्विष्टकृतः । अष्टकपालपक्षे यदि पञ्च- कपालो गायत्र्यौ संथाज्ये यद्यष्टाकपालः पट्र्याविति नियमात् ॥ ३४ ॥ पुनरूर्जा सह रय्येत्यभितः पुरोडाशमाहुतीर्जुहोति ॥ ३५ ॥ - 1 दृत्तिः - अभितः पुरोडाशं पुरोड शेज्यायाः पुरस्तादेकामुपरिष्टादन्यामित्यर्थः पुरोडाशस्योपर्यधश्चेति केचित्तदयुक्तम् । उत्तरविकलानौचियात् । अभितो वपां जुहो- तौति श्रुतेः । सूत्रूकतैवान्यथाव्याख्यानाञ्च || ३५ ॥ पुनरूजेति वा पुरस्वात्मयाजानां सह रय्येत्युपरिष्टादनूयाजानाम् ॥ ३६ || वृत्तिः—गतौ ॥ ३६ ॥ एतद्वा विपरीतम् ॥ ३७॥ वृत्तिः—उपरेिष्ट.त्प्रयाजानां पुरस्तादनूयाजानामित्यर्थः ॥ ३७ ॥ उभय दक्षिणा ददाति ॥ ३८ ॥ आग्न्यायिकी: पौनराधेयिकीच पुनर्निष्कृतो रथ इत्येताः शतमानं च हिरण्यम् ॥ ३९ ॥ - वृत्तिः — पौनरावेयिकश्च पुनर्निष्कृतो रथ इत्येता इत्यन्वयः | उक्ता होता ब्राह्मणे पुनर्निष्कृतो रथो दक्षिणा पुनरुत्स्यूतं वासः पुनरुत्सृष्टोऽनड्डानिति । तत्र पुनर्निष्कृतः पुनः संस्कारेण नवीकृतः । पुनरुत्स्यूतमुत दाढर्या सूत्रैस्पूनम् । पुनरुत्सृष्टोऽषसन्नो गौः । तथा बौधायन: - पुनर्निष्कृतो रथो दक्षिणेति पुनः संस्कृत एत्र भवति । पुनरुत्स्यूतं वास इति पुनः संस्कृतमेवैतद्भवति । पुनस्सृष्टोऽनड्डा निति । अत्रशीर्णगव एवैष उक्तो भवतीति । शतमानं हिरण्य मित्युक्तम् । तत्र किं रजतस्यापि हिरण्यस्य दानं लभ्यते नेत्याह ॥ ३९ ॥ तस्माद्रजतं हिरण्यमित्युक्तम् ॥ ४० ॥ वृत्तिः— ब्राह्मगे तस्माद्रजतं हिरण्य मित्यारभ्य तस्माद्वर्हिषि न देयमित्युक्तम् । ततः स्वर्णमेव देयमिति भावः ॥ ४० ॥ पुनरभिहितो रथः पुनरुत्स्यूतं स्थामूलं पुनः कामस्याऽऽप्या इत्येकेषाम् । ॥ ४१ ॥ वृत्तिः - पुनरभिहितः पुनः संस्कृतः । स्वामूलं वासोविशेषः । यथा स्यामूलेन