पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५६

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २२९ आग्नेयमष्टाकपालं निर्वपश्वानरं द्वादशकपालं वारुणमेकादशकपालमग्नये - सुमतेऽष्टाकपालं मैत्रं चरुमग्निमुद्दासविष्यन् || ४ || वृत्तिः -- केवलवैश्वानरचोदनामु वैश्वानर एव देवता न तु तद्गुणकोऽग्निस्तस्याश्रव णादिति केचित् । तत्तु मन्दफलं बहुमन्त्रब्राह्मणकल्प विरोधात् । इतरथाऽप्यश्रवणोपपत्तेश्च । तथा हि मन्त्रास्ता६द्य।ज्यानुषाक्यादयस्तद्गुणाझिलिङ्गा एव | यथा ‘वैश्व नरो अजीजनत् ' पृष्टो दिवीत्यादयः । ब्राह्मणेऽपि वैश्वानरं द्वादशकपालं निर्बपेदिति विधाय संक्सरो वा अग्निर्वैश्वानर इति वाक्यशेष आम्नातः । सूत्रकारोऽपि वायव्यपशावग्नये वैश्व नराय द्वादशकपालं पशुपुरोडाशं निर्वपतीत्युत्तत्वा तमेव न्यत्रापि विकल्पयन्नाह – यः कश्चनःग्नौ पशुरालभ्यते वैश्वानर एवास्य द्वादशकपाल: पशुपुरोडाशो भवतीले इति । तथा यदस्य पारे रजस इति वैश्वानराग्निलिङ्गामृचं विनियुङ्गे वैश्वानर्या परिति । वायनेना- प्युक्तं वैश्वानरमवदायाऽऽहाग्नये वैश्वानरायानुगृहीति । भारद्वाजेनापि वैश्वानरं द्वादशक निर्वपेदित्यनुवाकाम्नातान्त्रैश्वानरान्व्याचक्षाणेनोक्तम् – अग्नये वैश्वानराय पुरो- डाशं द्वादशकपालं निर्वपतीति | यश्वग्नेरश्रवण मुक्तं तदपि तद्धितवृत्तित्वादुपपन्नम् । यत्र तु सगुणदेवतासंबन्धस्तद्धितवृत्त्या विवक्षितस्तत्र गुगशब्दादेव तद्वितः क्रियते । गुणी त्वश्रुतोऽपि वाक्यशेपादिनाऽवसीयत इति पन्थाः । यथा वैमृथो गृहमेघीयः पाथि- कृतीत्यादौ । तस्मात्सिद्धं केवल वैश्वानरचोदनास्वपि अग्नि देवतेति । उद्वासविष्य निति वक्ष्यमाणकाला दुवासनापूर्वस्कल इत्यर्थः । आग्नेयमष्टाकपालं निपश्वानरं द्वादशकपालमग्निमुद्दासयिष्यन्निति । काम्येष्टिष्याम्नाताया द्विहविषोऽपीटेरनया विकल्प. मिच्छन्ति ता ब्रह्मणव्याख्याता इति तस्या अप्युपसंग्रहात् ॥ ४ ॥ पा या ते अग्न उत्सीदतः पवमाना प्रिया तनूः । तया सह पृथिवीमाविश रथंतरेण साना गायत्रेण च च्छन्दसा । या ते अग्ने पावका या मनसा प्रेयसी प्रिया तनूः । तया सहान्तरिक्षमाविश वामदेव्येन साम्ना त्रैष्टभेन च च्छन्दसा । ततो न ऊर्जमाकृषि गृहमेधं च वर्धय | या ते अग्ने सूर्ये शुचिः प्रिया तनूः शुक्रेऽध्यधिसंभृता । तया सह दिवमाविश बृहता साम्ना जागतेन च च्छन्दसा ततो नो दृष्टयाऽवत । यास्ते अग्ने कामदुधा विभक्तीनुसंभृताः । ताभिर्नः कामान्धुक्ष्वेह प्रजां पुष्टिमथो धनम् | यास्ते अग्ने संभृतीरिन्द्रः सूकर आरभत् । तासु शोचिषु सीदेह भस्म वैश्वानरस्य यत् ॥ ५ ॥ ये ते अग्ने वानस्पत्याः संभारा: संभृताः सह । तेभिर्गच्छ वनस्पतीन्स्वां योनं यथायथम् । अगन्नग्निर्यथालोकमसदत्सढ़ने स्वे । अवरहन्यं देवेषूपागां मनसा सहेति पुरस्तात्स्विष्टकृत सप्ताऽऽहुत होनि ॥ ६ ॥ वृत्तिः — जयवव्याख्या ।। ६ ।। -