पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५४

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २२५ न ह्याम्नायविरुद्धा मीमांसा भवति । सूत्रयामास हि जैमिनिस्ती ननिहोत्रं होतव्य- मिति । यथा— अर्थवादो वाऽर्थस्थ विद्यमानत्वात् " | ( जै० सू० ५ । ३ । २४ । ) भाष्यम् – अर्थवादो वा अवै सृष्टम् अग्निहोत्रेणानुद्रवन्ति " इत्यर्थवाद एव । कुतः | अर्थस्य विद्यमानत्वात् । विद्यमानो हि तत्रान्य एवाग्निहोत्र- होमः । कथं होतव्यम् । अग्निहोत्रं न होतव्यम् । इति मीमांतोपरि प्रदर्शितैवेति । तस्य तूष्णहोमस्य प्रशंसार्थोऽपमर्थवाद इति । तस्मात्तृष्णी मनिहोत्र.विरे, धिनी जैमिनीयमीमांसा नास्ति । अपि तु नित्याग्नि क्षेत्रं पत्रमानेष्टीः कृत्वा कर्तव्यम् । इति जैमिनिमतं केषांचि- त्कल्पकाराणाम् । तदेतदिष्ट्यन्तमाधानमिति जे घुश्यते मीमांसकशिखामणेिभिः । · तदेतत्सर्वम् “ यदि स्विष्टयस्तनुयुः " इयाश्वायनसूत्रे व्याख्यौ । नवं यथा- स्थितं मीमांसामतं व्याख्याय चाऽऽश्वलायनाचार्यस्य तदेव संमतमिति चानुमन्यते वृत्ति- कृत् । वयं तूभयथाऽभ्युपगच्छामः । शतपथकातीयसूत्रतद्भाष्यकारप्रामाण्यात् । तदेतदाधा- नस्य तित्रो विधाः सामवेदीय सूत्रकारलाट्यायनाचार्येण सूत्रिता:- अग्न्याधेयान्तान्कुर्वते पूर्णाहुतिमक्षाभिहोममिष्टीरिति ( ४ । १२ । १३ ) द्राह्मायणोऽप्येवमेव | भाष्यम् -- अग्न्याधेयस्यान्तान्कुर्वतेऽभ्वर्यवे पूर्णाहुत्यादि । केषां चित्पूर्णहत्यन्तम् । केपांचिदक्षाभिहोमान्तम् । केषांचिदिष्टयन्तम् । इति । तदेतदाधानं षड्विधं विचारितम् | तद्विषयकाणि प्रमाणान्यप्युपन्यस्तानि । अनुष्टा- नपद्धतिश्च पूर्वेषां पाणां प्रदर्शिता । उत्तरेपां त्रयाणां त्वाधानपद्धती प्रदर्शितैव । तत्राक्षाभिहोमो नास्त्यापस्तम्ब्रेन सूत्रित इति न मीमांसितोऽस्माभिः । अत एत्र केां- चित्स होम इत्यपि निर्दिष्टं लाट्यायनाचार्येणेत्युपरतम् । . तदिदमनुष्ठानपूर्वं विचारितम् । तथाऽपि विशयमानानामर्थे पुनर्निंगमयामि । पौर्ण- मास्यां तु ' इत्यापस्तम्बसूत्रादिष्टिपूर्वाधानं सौत्रमिति जानन्तु सुत्रियां वराः | तत्राजस्त्रबारणादिविचारः स्वतन्त्रतयाऽऽवानपद्धतौ प्रपञ्चितः । तत्र वृत्तिकारमतं यदु- पन्यस्तं तत्तु प्रथमाग्निहोत्रव्यतिरेकीनि ज्ञेयम् । इष्टि मोमपूर्वेऽजनधारण नास्तीति तदीयः सिद्धान्तः |