पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५३

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका । अक्षाभिहोमान्तम् । तदेतत्सा मबेदीयलाटचायनाचार्यप्रणीतश्रौतसूत्रे चतुर्थाभ्याये दृश्यते - २२४ हुतायां पूर्णाहुतौ यथार्थस्यात् | अक्षा श्वेदभिजुहुयुस्तत्र गत्वा तूष्णी- मुपवि॒शेस् ” ( ४ । १० | २२ ) अयं च ब्रह्मण उपदेशस्तूष्णीमुप विशेदिति । -- भाष्यम् – कचिदश्वर्यवोऽक्षाभिहोमं कुर्वन्ति । अक्षा नाम विभीतकफलानि । तद्य- यक्षानभिजुडुयुः । तत्र तस्मिन्गत्वा तूष्णीमुपविशेदिति । इत्यवासितः पूर्णाहुत्यन्ताद्याधान- विचार: । ५ इष्टयन्तम् । " पवमानहवींषि सद्यो निर्वपेत् " | ( आ० सू० ५ | २१ । १ ) भाष्यम् - पत्रमानहवींषि नाम त्रीण्यनन्तरं वक्ष्यमाणानि तानि सद्यः समानेऽहनि यस्मिन्नाधानं तस्मिन्नेव निर्वपेत् । इत्यापस्तम्बसूत्रं प्रमाणम् | अन्यच्च मीमांसकानां मते- नोच्यते । जैमिनिप्रभृतीनां मीमांसकानां मतेनेष्ट्यन्तमेवाऽऽधानं कृत्वैवान्यदारब्धव्यम् । तदेतत्संगृह्णीमः - “ संस्कृते कर्म संस्काराणां तदर्थत्वात् " । (जै० पू० मी० ५|३|२१ ) भाष्यम्—–पवमानेष्टिभिः संस्कृतेष्वनिषु कर्माणि वर्तेरन् । कुतः । संस्काराणां तदर्थत्वात् । संस्कारशब्दा एत आहवनीयादयः संस्कारस्य कस्यचिदभावे नाऽऽहवनी- यादिषु प्रतिपत्तिः स्यात् । तस्मात्संस्कृतेष्वमिषु कर्माणीति । सूत्रार्थस्तु–संस्कृते पत्रमानेष्टिसंस्कृतेऽसौ कर्माग्निहोत्रादि कर्माऽऽहवनीयशब्दस्य संस्का- रवाचितया संस्काराणां पवमानसंस्काराणां तदर्थत्वादग्निहोत्राद्यर्थः वादिति । ननु तर्हि पूर्णाहुतेः पूर्वं हूयमानं तूष्णीमग्निहोत्रमपि मीमांसकानां मते न स्यात् । मैषम् – तत्तु साक्षादाम्नायेनैव मीमांस्य निरणायि--- " ब्रह्मवादिनो बदन्ति होतव्यमग्निहोत्रा ५ इति न होतव्या ३ मिति यद्य- जुषा जुहुयात् । अयथापूर्वमाहुतीर्जुहुयायन जुहुयात् । अग्निः पराभवेत् । तूष्णीमेव होतव्यं यथापूर्वमाहुतीर्जुहोति नाग्निः पराभवति ” इति । तस्मात्तूष्णीमग्निहोत्रं होतव्यमिति सिद्धम् । एतद।म्नायसिद्धं मीमांसकानां मते पूर्वोक्तया रीत्या न होतव्यमित्यापनम् । तत्र का 1: । ब्रमः- गतिः D