पृष्ठम्:अग्निहोत्रचन्द्रिका.djvu/२५२

विकिस्रोतः तः
एतत् पृष्ठम् अपरिष्कृतम् अस्ति

अग्निहोत्रचन्द्रिका | २२९ हिता अग्नयो विहितनक्षत्रादिग्वमावास्यायां च ततः परं नास्तष्टे: काल: किंमनुष्ठेय मिति निरपेक्षमाणा इष्टया दिकम ग्निहोत्रहोममेव पक्षन्त इति । एतच नक्षत्राधानममावास्या- धानमार्ताधानमिति सिद्धम् । नक्षत्राधानपक्षेऽपि पूर्वेद्युरुपक्रमो नक्षत्रदिने मन्थनादि । अमावास्याधाने तु चतु. र्दश्यां ब्रह्मौदनान्तं कृत्वाऽमावास्या या मग्न्युत्पत्ति रिष्टयश्च सायमग्निहोत्रहोमः । तदेतत्स्पष्टमेव सूत्रयामासाऽऽचार्य आपस्तम्ब इष्टयन्तमाधानमुक्वा ततोऽग्निहोत्रहो मं सूत्रयित्वाऽध्येऽमा- बास्याधानविषयमेतदिति सूत्रयांबभूव । अतस्तेनैत्र न्यायेन पौर्णमास्यामपि पत्रमानेष्टयन- न्तरमेवाग्निहोत्रं जुहवामेति न वक्तव्यम् । सूत्रवैयर्थ्यात् । तानीमानि सूत्राणि यथाक्रमं निदर्शयामः- " सिद्धमिष्टिः संतिष्ठते " ( आपस्तम्बश्रो० सू० ५ | २२ | २ ) - ८८ अग्निहोत्रमारप्स्यमानो दशहोतारं मनसाऽनुद्दुत्याऽऽहवनीये सग्रहं त्वय सायममित्रं जुहोति " || ( ५ | २२ | १० ) "दादशाहमजस्त्रेषु यजमानः स्वयमग्निहोत्रं जुहुयात्" ॥ ( ५ | २२ । १३ ) अमावास्यायामादधानस्यैतत् " ( ५ | २४९ ) इति । अमावास्याधानविषयं सूत्रयित्वा यावद्विशेषं पौर्णमास्यां सूत्रयामास । अत एवाऽऽधानं पौर्णमास्यां क्रियमाणमाधानं सान्वारम्मणीय मिति विशिनष्टि । तदेवेष्टिपूर्वत्वे लिङ्गम् । अत एव चामावास्याधानमपि होमपूर्व सूत्रत एव सिद्धि प्रापेत्युपरभ्यते । पूर्णाहुत्यन्तमाधानम् । इदमिदानीं संदिह्यते । इदमाधानमस्ति वा न वा । नास्ति चेत्संज्ञावैयर्थ्यम् | अस्ति चेकि प्रमाणमिति जिज्ञासामहे । तदेतन्मीमांसयामः । अस्तीति न संज्ञावैयर्थ्यप्रसङ्गः । प्रमाणं निदर्शयामः । तच्च साक्षात्सोमपूर्वाधानवदाम्नाय एव विदधाति यथा— । पूर्णाहुतिं जुहोति तत्पूर्णातिं जुहोत्यन्नादं वा एतमात्मनो जनयते यदामं तस्मा एतदन्नाद्यमपिदधाति । यथा कुमाराय वा जाताय वत्साय वा स्तनमपिदध्यादेवमस्या एतदन्नाद्यमपिदधाति । स एतेनान्नेन शान्त उत्तराणि हवींषि श्रप्यमाणान्युपरमति । तदाहु: - एतामेवाऽऽहुति हुत्वाऽयोत्तराणि इवीषि नाद्रियेतैतयैव तं काममामोति यमभिकाममुत्तराणि हवींषि निर्व- पतीति " || - अर्थवादेनोत्तराणि पवमानादीनि हवोषि न निर्वपेदित्युक्तम् । नवायं काम्यपूर्णाहुते-